________________
आगम
(१८)
ཟླ + ཋལླཱ ཡྻ
[५६-६०]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३], मुनि दीपरत्नसागरेण संकलित ......
Jan Eikeitin
मूलं [४३] + गाथा:
आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
|
स्मिन् विचित्रमणिरक्षमयकुट्टिमतलं - बद्धभूमिका यत्र से तथा तस्मिन् अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रज्ञानां च भक्तयो - यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने | सुखेन निषण्णः - उपविष्टस्सन् शुभोदकैः - तीर्थोदकैः सुखोदकैर्वा नात्युष्णैर्नातिशीतैरित्यर्थः गन्धोदकैः - चन्दनादिरसमिश्रः पुष्पोदकैः- कुसुमवासितैः शुद्धोदकैश्च-स्वाभाविकैस्तीर्थान्यजलाशयै (यजलै रित्यर्थः, 'मजिए 'ति उत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेन कान्तिजननश्रमज (ह) ननादिगुणार्थं मज्जनमुक्तं, अधारिष्ठ विधातार्थमाह पुनः कल्याणकारिप्रवरमज्जनस्य - विरुद्ध ग्रहपीडानिवृत्त्यर्थक विहितीपध्यादिस्नानस्य विधिना 'दुमस्जीत् शुद्धी' इत्यस्य शुद्धार्थकत्वेन स्नानार्थकत्वान्मज्जितः स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मजित इत्याह तंत्र स्नानावसरे कौतुकानां रक्षादीनां | शतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यक्प्रयोगार्थं दर्श्यमानैः कौतुकशतैः भाण्डचेष्टादि कुतूहलैर्बहुविधैः - अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तर विधिमाह - 'कलाणग' इत्यादि, कल्याणकप्रवरमंज्जनावसाने स्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अत एव सुकुमालया गन्धप्रधानया कपायेण - पीतरक्तवर्णाश्रयरञ्जनीयवस्तुना रक्ता कापायिकी तथा कपायरक्कया शाटिकयेत्यर्थः रूक्षितं निर्लेपतामापादितं अङ्गं यस्य स तथा सरससुरभिगोशीर्षचन्दनानुदिसगात्रः, अहतं- मलमूषिकादिभिरनुपतं प्रत्यग्रमित्यर्थः सुमहार्घ - बहुमूल्यं यद्दृप्यरणं- प्रधानवस्त्रं तत्सुसंवृतं सुष्ठु परिहितं येन स तथा अनेनादौ वस्त्रालङ्कार उक्तः, अत्र च वस्त्रसूत्रं पूर्व योजनीयं चन्दनसूत्रं पश्चात् क्रमप्राधा
For P&P Cy
~ 380~