________________
आगम
(१८)
ཝཱ + ཚིལླཱ ཡྻ
[५६-६०]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [३],
मूलं [४३] + गाथा:
मुनि दीपरत्नसागरेण संकलित...... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
दारभ्य प्रदक्षिणं करोति, त्रिः प्रदक्षिणयतीत्यर्थः, तथा कृत्वा च 'करतल'ति अत्र यावत्पदात् 'करयल परिग्गहिअं दसणहं सिरसावतं मत्थए अंजलि'ति, अत्र व्याख्या करतलाभ्यां परिगृहीतः - आत्तस्तं दश करद्वयसम्बन्धिनो नखाः समुदिता यत्र तं शिरसि मस्तके आवर्त्तः- आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं - मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररलस्य प्रणामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति- निर्याति, प्रतिनिष्क्रम्य च यत्रैव बाहिरिका - आभ्यन्तरिकापेक्षया वाह्या उपस्थानशाला- आस्थानमण्डपो यंत्रेव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च 'करतल जाव'ति पूर्ववत् जयेन - परानभिभवनीयत्वरूपेण विजयेन परेषामसहमानानामभिभावकत्वरूपेण वर्द्धयति-जयंविजयाभ्यां त्वं वर्द्धयस्वेत्याशिषं प्रयुङ्क्ते वर्द्धयित्वा चैवमवादीत् किं तदित्याह'एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्ययादिना यदन्यथा भवति, यद्देवानुप्रियाणां राजपादानां आयुधगृहशालायां दिव्यं चक्ररनं समुत्पन्नं तदेव तत् णमिति प्राग्वत् देवानुप्रियाणां प्रियार्थतायै- प्रीत्यर्थं प्रियं इष्टं निवे| दयामः 'एतत्' प्रियनिवेदनं प्रियं 'मे' भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तते ण' मित्यादि, ततः स भरतो राजा तस्यायुधगृहि कंस्य समीपे एनमर्थं श्रुत्वा आकर्ण्य कर्णाभ्यां निशम्य अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाद्ये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाह -- विकसित कमलवन्नयनवदने यस्य स तथा प्रचलितानि-चक्ररनोत्पत्तिश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वरकटके प्रधानवलये त्रुटि के बाहरक्षको
१ जयः सामान्यत उपवादिविषयः विजयः स एव विशिष्टतरः परममुद्भवः इति ही वृती)
श्री. ३२ ॥५॥
FE&P Cy
~376~