________________
आगम
(१८)
प्रत
सूत्रांक
[२,३]
दीप
अनुक्रम
[२,३]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [१],
मूलं [२-३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
Joinitio
आतं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथा उत्पन्ना- प्रागभूता सती भूता श्रद्धा यस्यासौ, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न ह्यनुत्पन्ना श्रद्धा प्रवर्त्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, हेतुत्वमदर्शनं व उचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः - "प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् ।” | इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, | तथा 'उप्पण्णसंसये उप्पण्णको उहले' इति प्राग्वत्, तथा 'संजांयस' इत्यादिपदषङ्कं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो वेदितव्यः, अन्ये त्वाहुः -जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोताः, न चैवं पुनरुक्तदोषः, यदाह - "वक्ता हर्ष भयादिभिरक्षितमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥१॥” इति उत्थानमुत्था- ऊर्ध्वं वर्त्तनं तथा उत्तिष्ठति - उद्धों भवति, ऊर्हेति पाठान्तरम्, इह 'उट्ठेई'त्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठत इति ततस्तद्व्यवच्छेदार्थमुक्तमुत्थयेति, उपागच्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निद्दिशति, यद्यपि द्वयोः क्रिययोः पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो व्रजति इत्यादी द्वयोः क्रिययोयाँगपथदर्शनादानन्तर्यसूचनार्थमित्थमुपन्यासः, उत्थान क्रियासव्यपेक्षत्वादुपागमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'येने' ति
इन्द्रभूति गौतमस्य वर्णनं मूलं एवं परिभाषा सहितं
Fur Fate & C
~36~
99229209799299৯•