________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
---- मूलं [२-३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [२,३]
| हनदहनसमर्थतया चलितं तपो-धर्मध्यानादि यस्य स तथा, तथा तसं तपो येन स तथा, एवं हि तेन तप्तं तपो येन सर्वाण्यशुमानि कर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमासादिदोषरहित्त्वात् तपो यस्य स तथा, तथा चदार:प्रधानः, अथवा 'ओरालो' भीष्मः, उग्रादि विशेषणविशिष्टतपःकरणतः पार्थस्थानामल्यसत्त्वानां भयानक इत्यर्थः, तथा घोरो-निर्पणः, परीपहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्देय इत्यर्थः, अन्ये तु आत्मनिरपेक्ष घोरमाहुः, तथा| घोरा-इतरैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, तथा घोरस्तपोभिस्तपस्वी, तथा घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, उच्छूढ-उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सङ्क्षिधा-शरीरान्तर्गतत्वेन इस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याविशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश पूर्वाणि विद्यन्ते यस्य स तथा, तेन तेषां रचि-8
तत्वात् , अनेन तस्य श्रुतकेवेलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-'चतुर्ज्ञानोपगतः' मतिश्रुतावधि18| मनःपर्यायरूपज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वयकलितोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति,
चतुर्दशपूर्वविदां पटूस्थानपतितत्वेन श्रवणात् , अत आह-सर्वे च ते अक्षरसन्निपाताच-अक्षरसंयोगास्ते ज्ञेयतया सन्ति 18| यस्य स तथा, किमुक्तं भवति !-या काचिजगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपि जानाति, 1. अथवा श्रव्याणि-श्रुतिसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति स तथा, एवंगुणविशिष्टो भगवान्
secticeseseedeeoecedeceae
दीप अनुक्रम [२,३]
Jistilenni
इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं
~ 34~