SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ---- -- मूलं [३४-३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [३४-३६] दीप अनुक्रम [४७-४९] | कृत्वा 'बावचरिंति द्वासप्ततिः स्थानविशेषाश्रिता निगोदा:-कुटुम्बानि, द्विसप्ततिसङ्ख्या चैव-वैताळ्यादर्वाग् गङ्गाया स्तटद्वये नवनवबिलसम्भवादष्टादश, एवं सिन्ध्वा अपि अष्टादश, एषु च दक्षिणार्बभरतमनुजा वसन्ति, वैताब्यात 18 परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्धभरतवासिनो मनुजा वसन्ति, बीजमिव 18 बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येव मात्रा-परिमाणं येषां ते तथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवा सिनो मनुजा भविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुकमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह-18 'ते णं भंते ! मणुआ' इत्यादि, ते भगवन् ! मनुजाः किमाहरिष्यन्ति ?-किं भोक्ष्यन्ते, भगवानाह-गौतम ! तस्मिन्,18 काले-एकान्तदुष्पमालक्षणे तस्मिन् समये-षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः-शकटचक्रद्वयममितो मार्गस्तेन मात्रा-परिमाणं यस्य स तारशो विस्तर:-प्रवाहव्यासो ययोस्ते तथा, अक्ष-चक्रनाभिक्षेप्यकाष्ठं तत्र स्रोतोधुरः प्रवेशरन्धं तदेव प्रमाणं तेन मात्रा-अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरं जलं धरिप्यत इत्यर्थः, ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोकरूपा (प्रवाही) कथं सङ्गच्छेते ?. उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवशादपरजलशोपे | समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति न काप्यनुपपत्तिरिति, तदपि च जलं बहुमत्स्यकच्छपाकीर्ण न चैव । अब्बहुलं-बहप्कार्य सजातीयापरापूकायपिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्ते सूरास्तमयनमुहूः च, ~344 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy