________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----..........-----
----- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
नविधि-शयनं शय्या-पल्यङ्कादिस्तद्विधिः, स चै-"कर्माङ्गलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गलशतं नृपाणां महती शय्या जयाय कृता ॥१॥ नवतिः सैव पडूना द्वादशहीना त्रिषट्कहीना च। नृपपुत्रमन्निबलपतिपुरोधसां स्युर्यधास-1 क्यम् ॥२॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्तः। आयामत्यंशसमः पादोच्छ्रायः सकुप्यशिरा॥३॥"इत्यादिक विज्ञानं, अथवा शयनं-स्वमं तद्विषयको विधिस्तं, यथा पूर्वस्यां शिरः कुर्या'दित्यादिकं विधि २० आया-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां २१ प्रहेलिका-गूढाशयपद्यं २२ मागधिकां-छन्दोविशेष, तल्लक्षणं चेदं-विसमेसु दुन्नि । टगणा समेसु पो टो तओ दुसुवि जत्थ। लहुओ कगणो लहुओ कगणोतं मुणह मागहि ॥शा ति२२ [द्वित्रिचतुःपञ्चषड्मा|त्रिका गणाः कचटतपसंज्ञाः ] गाथा-संस्कृतेतरभाषानिवद्धामार्यामेव २४ गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव || २५ श्लोक-अनुष्टुविशेष २६ हिरण्ययुकिं' हिरण्यस्थ-रूप्यस्य युकिं-यथोचितस्थाने योजनं २७ एवं सुवर्णयुक्ति २८
चूर्णयुक्ति-कोष्ठादिसुरभिद्रव्येषु चूणींकृतेषु तत्तदुचितद्रव्यमेलनं २१ आभरणविधि व्यक्तं ३० तरुणीपरिकर्म-युवतीनामङ्गसक्रियां वर्णादिवृद्धिरूपां ३१ स्त्रीलक्षणपुरुषलक्षणे सामुद्रिकप्रसिद्धे ३२-३३, हयलक्षणं-'दीर्घग्रीवाक्षिकूट'-18 | इत्यादिकमवलक्षणविज्ञानं ३४ गजलक्षणं पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ | मन्दभद्रौ, सङ्कीर्णनागोऽनियतप्रमाणः ॥१॥” इत्यादिकं ज्ञानं ५५ 'गोणलक्षणं ति गोजातीयलक्षणं 'सामाबिलरूक्षाक्ष्यो मूषिकनयनाश्च न शुभदा गावः' इत्यादिकं ३६ कुर्कुटलक्षणं-'कुर्कुटजतनुरुहाङ्गुलिस्ताम्रवननखचूलिकः सितः'
दीप
अनुक्रम [४३]
~ 278~