________________
आगम
(१८)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[४१]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१३३॥
श्चतुरशीत्या पूर्वलक्षैः शेषश्चैकोननवत्या पक्षैः परिपूर्यते, तेन पूर्वेषां सुमत्यादिकुलकराणा महत्तमायुषां क्वावकाशः १, २वक्षस्कारे उच्यते, आद्यस्य सुमतेस्तावत्पल्यदशमाश आयुः, ततो द्वादश वंश्यान् यावत् पूर्वदर्शितन्यायेनै कस्मिंश्चत्वारिंशत्त- कुलकराः | मेऽवशिष्टभागेऽसङ्ख्येयानि पूर्वाणि तानि च यथोत्तरं हीनहीनानि नाभेस्तु सङ्ख्येयानि पूर्वाणीत्यादि, इत्थं चावि- २.२८ रुद्धमिव प्रतिभाति, यत्तु हारिभद्या मावश्यकवृत्तौ “पहिओवमदसमंसो पढमस्साडं तो असंखिज्जा । ते अणुपुची हीणा पुबा नाभिस्स संखिज्जा ॥ १ ॥” इति गाथाव्याख्याने मतान्तरेण नाभेरसङ्ख्येय पूर्वायुष्कत्वमुक्तं तत्तु | कुलकरसमानायुष्कत्वेन कुलकरपलीनां मरुदेव्या अभ्यसंख्यपूर्वायुष्कतापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीति न कोऽपि परस्परं विरोधः, यच्चावश्यकादिषु विमलवाहनस्य पत्यदशमांशायुष्कत्वं तद्वचनाभेदादवगन्तव्यं यच ग्रन्थान्तरे नामपाठभेदः सोऽपि तथैवेत्यत्र सर्वविदः प्रमाणमित्यलं विस्तरेण, अथ प्रस्तुतमुपक्रम्यते - ' तद्यथे 'ति तान् नामतो दर्शयति, सुमतिः १ प्रतिश्रुतिः २ सीमङ्करः ३ सीमन्धरः ४ क्षेमङ्करः ५ क्षेमन्धरः ६ विमलवाहनः ७ चक्षुष्मान् ८ यशस्वी ९ अभिचन्द्रः १० चन्द्राभः ११ प्रसेनजित् १२ मरुदेवः १३ नाभिः १४ ऋषभ १५ इति, | यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितमत्र तु पञ्चदशस्य ऋषभस्यापि तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरतनाम्नोऽपि महाराजस्य प्ररूपणाप्रक्रमितव्याऽस्तीति ज्ञापनार्थमिति । अथैते कुलकरत्वं कथं कृतवन्त इत्याह
तत्थ णं सुमई १ पडिस्इ २ सीमंकर ३ सीमंधर ४ खेमंकरा ५ णं एतेसिं पंचं कुराणं हकारे णामं दण्डणीई होत्या, ते
Fur Ele&ae Cy
~ 269~
॥१३३॥