________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], --------...----
-- मूलं [२३-२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[२३-२४]
पदं प्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्त्वतो व्यपगतपदेनैवोक्तत्वात् । 'अस्थि ण'मित्यादि, अत्र अहयः-सामान्यतः ॥ सर्पाः अजगरा:-महाकायसर्पाः शेष पूर्ववत्, यतः प्रकृतिभद्रकास्ते व्यालगणाः-सरिसृपजातीयगणाः प्रज्ञप्ता इति । | अत्र ग्रहयुद्धसूत्रं जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायामप्यलेखि । 'अस्थि ण
मित्यादि, अत्र डिम्बडमरौ पूर्ववत् , कलहो-वचनराटिः बोलो-बहूनामा+नामव्यक्ताक्षरध्वनिकः कलकलः क्षार:1|| परस्परं मत्सरः वैर-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः महायुद्धानि-व्यवस्थाहीना महारणाः महासङ्घामा:
चक्रादिन्यूहरचनोपेततया सव्यवस्था महारणाः महाशस्त्राणि-नागवाणादीनि तेषां निपतनानि-हिंसाध्या रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्धतविचित्रशक्तिकत्वात्, तथाहि-नागवाणा धनुष्यारोपिता बाणाकारा मुक्काच सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सङ्क्रान्ता नागमूतीभूय पाशत्वमश्नुवते, तामसवाणास्तु सकलरणो ब्या-18 पिमहान्धतमसरूपतया पवनवाणाश्च तथाविधपवनस्वरूपतया वहिबाणाश्च तादृशवहिप्रकारेण परिणताः प्रतिवैरिवाहि-18 | नीषु विनोत्पादका भवन्ति, एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्कं च-"चित्रं श्रेणिक ! ते 18 बाणा, भवन्ति धनुराश्रिताः । उल्कारुपाच गच्छन्तः, शरीरे नागमूर्तयः ॥१॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं | पाशत्वमागताः। आमरा ह्यस्त्रभेदास्ते, यथाचिन्तितमूर्तयः॥२॥" महापुरुषा:-छत्रपत्यादयस्तेषां पतनानि-कालधर्मनयनानि, तत एव महारुधिराणि-छत्रपत्यादिसत्करुधिराणि तेषां निपतनानि-प्रवाहरूपतया वहनानि, अनोत्तरम्-18
eseeeeeeeeeeeeeeee
दीप
brasaaraasaa2292029aapas292906
अनुक्रम [३६-३७]
~252~