________________
आगम
(१८)
प्रत
सूत्रांक
[१९]
+
गाथा:
दीप
अनुक्रम [२७-३२]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [२],
मूलं [१९] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मूद्वीपक्षान्विचन्द्रीया वृत्तिः
॥ ९३ ॥
| उभयोरपीति समानकक्षताद्योतनार्थं प्रत्येकं चकारः, तत्र सूक्ष्मस्य कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥” इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्या परं वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति - अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनो ये समुदयाः - त्रिचतुरादिमेलकास्तेषां याः समितयो - बहूनि भीलनानि तासां समागमेन - संयोगेन की भावे| नेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति निश्चयनयो हि निर्विभागं सूक्ष्मं पुनलं परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पन्नोऽपि यः शस्त्र|च्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततीऽसौ निश्चयतः | स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः, अयं च स्कन्धत्वात् काष्ठवत् छेदादिविषयो भवतीति वादिनं प्रत्याह-तत्र शस्त्रं न क्रामति-न सञ्चरति, असिक्षुरादिधारामाप्तोऽपि स न छिद्येत न च भिद्येतेत्यर्थः, यद्यनन्तैः परमाशुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न | शखच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलाईता गङ्गाप्रति श्रोतोविहन्यमानता जलकोधादिकं सर्वमपि निरस्तं मन्तव्यं, सर्वेषामपि तेषां सखत्वाविशेषात्, अन्त्रार्थे प्रमाणमाह-शस्त्रेण सुतीक्ष्णेनापि छेतुं- खन्ना| दिना द्विधा कर्त्तुं भेत्तुं अनेकधा विदारयितुं सूच्यादिना वस्त्रादिवद्धा सच्छिद्रं कर्त्तु, वा विकल्पे, यं-पुनलादिविशेषं
Fur Prate&P Cy
~189~
२वक्षस्कारे पल्योपम
प्ररूपणा सू. १९
॥ ९३ ॥