SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [-] दीप अनुक्रम [-] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्पूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ६ ॥ श्रुतादिनिमित्तमाचार्य भावावधारणरूपः अनेनेहाधिकारः, अथानुयोगाङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकम् अतदङ्गत्वात्, तदसम्यक् तस्याप्यनुयोगाङ्गत्वाद्, यद्भाष्यकारः - "गुरुंचित्तायत्ताई वक्खाणंगाई जेण | सवाई । तेण जह सुप्पसनं होइ तयं तं तहा कजं ॥ १ ॥" आह-यद्येवं तर्हि गुरुभावोपक्रम एव दर्शनीयः न शेषाः, निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्, तथाहि - वाढग्लानादिसाधून् पथ्यान्नपानादिना प्रतिजाग्रति वैयावृत्त्यनियुक्ते साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्युपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात् भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच्च गुरुः प्रसीदति, नामस्थापनोपक्रमी तु प्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयोगिनिरासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणं च नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः । उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि षोढेव, आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात् एतव्यक्त्यर्थिना तु अनुयोगद्वारसूत्रं विलोक्यं ग्रन्थविस्तरभयात्तु नेह तन्यते, केवढं आनुपूर्व्यादिषु पंचसूपक्रमभेदेषु षष्ठे समवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चानुपूर्व्यादिरुपक्रमः पद्विधोऽप्यभिहितो भवति, तथाहि - दशविधायामप्यानुपूर्व्यामस्याध्ययनस्योत्कीर्तनगणनानुपूर्व्योः १] गुरुचितायानि व्याख्याशानि येन सर्वानि । तेन यथा तरतुप्रसन्नं भवति तत्तथा कार्यम् ॥ १ ॥ Fur Fate & Use Cy उपक्रम- 'निक्षेप' - 'अनुगम' आदि शब्दस्य विविध अर्था:, भेदाः इत्यादिः ~ 15~ उपक्रमा दीनि. ॥६॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy