________________
आगम
(१८)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[१२]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [११]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्विचन्द्री - या वृतिः
॥ ६८ ॥
गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तु सिध्वा पश्चिमसमुद्रं मिलन्त्या कृतः, मध्यमभागस्तु गङ्गासिन्धुभ्यां कृत इति द्वे अष्टत्रिंशदधिके योजनशते त्रीकोनविंशतिभागान् योजनस्य विष्कम्भेन, किमुक्तं भवति ! - पट्कलाधिकषविंशपञ्चशतयोजन ५२६ भरतविस्तारा द्वैताद्व्य विस्तारे ५० योजनमिते शोधितेऽवशिष्टं चत्वारि योजनशतानि षट्सप्तत्यधिकानि षट् च कलाः ४७६, एतदर्जे द्वे योजनानां शते अष्टत्रिंशदधिके तिस्रश्चापराः कलाः २३८ इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणा कृता, शरविष्कम्भ योरभेदादिति । अथ जीवासूत्रमाह- 'तस्स जीवेत्यादि, तस्य दक्षिणार्द्धभरतस्य जीवेव जीवा-ऋज्वी सर्वान्तिमप्रदेशपङ्क्तिः, उत्तरेण- उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने पूर्वस्यां प्रतीचीने-अपरस्यां चाऽऽयता - आयामवती द्विधा लवणसमुद्रं स्पृष्टा-छुप्तवती इदमेषार्थं द्योतयति' पुरत्थिमिहाए' इति पूर्वया कोट्या-अग्रभागेन पौरस्त्यं लवणसमुद्रावयवं स्पृष्टा पाश्चात्यया कोव्या पाश्चात्यं लवणसमुद्रावयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि - अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभा| गानू योजनस्यायामेन ९७४८ २ यच्च समवायाङ्गसूत्रे - 'दाहिणहभरहस्स णं जीवा पाईणपडीणायया दुहओ लवणसमुई पुट्ठा णव जोअणसहस्साई आयामेण मित्युक्तं तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारण तु जयमवशिष्टराशिरूपो विशेषो गृहीत इति, अत्र सूत्रेऽनुकापि जीवानयने करणभावना दर्श्यते, तथाहि--जम्बूदीपव्यासाद्विवक्षितक्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनञ्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो
Furwale rely
~ 139~
१वक्षस्कारे दक्षिणंभर
तार्थ सू. ११
॥ ६८ ॥