________________
आगम
(१८)
प्रत
सूत्रांक
[ ७,८]
दीप
अनुक्रम
[७,८]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [१],
मूलं [ ७-८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीनू ११
साओ, तंजहा- पुरच्छिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु मोमेसु पत्तेयं पत्तेयं सीहासणं सपरिवारं पण्णत्तं" अत्र व्याख्या- तस्य सिंहासनस्य 'अवरोत्तरेणं' ति अपरोत्तरस्यां वायव्यकोणे इत्यर्थः, 'उत्तरेणं'ति उत्तरस्यां दिशि उत्तरपूर्वस्यां च-ईशानकोणे सर्वसङ्कलनया तिसृषु दिक्षु अत्र विजयदेवस्य चतुर्णां समाने - विजयदेवसदृशे आयुर्युतिविभवादौ भवाः सामानिकास्तेषां 'साहस्सीणं' ति प्राकृतत्वाद् दीर्घत्वं स्त्रीत्वं च सहवाणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि तस्य च सिंहासनस्य पूर्वस्यामत्र विजयदेवस्य चतसृणामप्रमहिषीणां, इह 'कृताभिषेका देवी महिषी' त्युच्यते सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रा-प्रधाना, ताश्च ता महिष्यश्च अग्रमहिष्यस्तासामग्रमहिषीणां प्रत्येकमेकैकसहस्रसंख्यदेवीपरिवारसहितानां चत्वारि भद्रासन सहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेय्यां विदिशीत्यर्थः, अत्र विजयस्य देवस्य अभ्यन्तरिकायाः पर्षदः - अभ्यन्तरपपपाणामष्टानां देवसहस्राणां योग्यान्यष्ट भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यमिकायाः पर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैर्ऋत्यां विदिशीत्यर्थः, अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासन सहस्राणि प्रज्ञतानि, ननु केऽभ्यन्तरमध्य बाह्यपर्षत्का देवाः यैरभ्यन्तरपर्षदादिव्यवहारो भवति १, उच्यते, अभ्वन्तरपर्यत्का देवा आहूता एव स्वामिनोऽन्तिकमायान्ति न त्वनाहूताः, परमगौरवपात्रत्वात्, मध्यमपर्षत्कास्तु आहूता अपि अनाहूता
Fur Fate &P Cy
~124~
১0%9999