________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [७,८]
eatreeeeeeeeeees
भत्तिचित्ता' इति विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्तायाः यानि च रलानि-कर्केतनादीनि तेषां भक्तिमिःविच्छित्तिभिश्चित्रा-नानारूपा आश्चर्यवन्तो वा, नानाविधमणिरलभक्तिचित्राः, तथा 'वाउडुअविजयवेजयंतीपडागच्छत्ताइछत्तकलिया' वातोडुता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः, अथवा विजया इति वैजन्तीनां पार्थकर्णिका उच्यन्ते, तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिछत्रक| लिताः, तुङ्गा-उच्चाः, उच्चस्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव गगनतलं-अम्बरमनुलिखन्ति-अभिलंघयन्ति शिखराणि येषां ते तथा, तथा जालानि-जालकानि गृहभित्तिषु लोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभा| निमित्तं रलानि येषु ते जालान्तररलाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जरादुन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिताः, यथा किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्वहिष्कृतमत्यन्तमविनष्टच्छायं भवति, एवं तेऽपि प्रासादावतंसका इति भावः, अथवा जालान्तरगतरत्नपञ्जरै-रत्नसमुदायविशेषैरुन्मीलिता इव-उन्मिपितलोचना | इवेत्यर्थः, मणिकनकस्तूपिका इति प्रतीत, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाः द्वारादी प्रतिकृतित्वेन स्थितानि तिलकरतानि-भित्त्यादिषु पुण्डूविशेषाः अर्द्धचन्द्राश्च द्वारादिषु तश्चित्रा-नानारूपा आश्चर्यभूता वा नानामणिमयदामालंकृता इति व्यक्तं अन्तर्बहिश्च श्लक्ष्णा-मसणाः, तपनीयस्य-रक्कसुवर्णस्य वा
दीप अनुक्रम [७,८]
229200290292020
~110~