________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७],
-------- मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
आलीनं-सुश्लिष्टं निर्भरभरकेशत्वात् प्रमाणयुक्त-चरणावधि लम्बमानत्वात् वर्तितं-वर्तुलं सुजाता-लक्षणप्रशस्ता रमणीया-मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनं-पुच्छं येषां ते तथा तेषां, तिर्यशो हि पुच्छेनैव गात्र प्रमार्ज-11 यन्तीति, तथा उपचिता-मांसलाः परिपूर्णाः-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैले घुलाघवोपेतः-शीघ्रतर इत्यर्थः । विक्रमः-पादविक्षेपो येषां ते तथा तेषां, तथा अङ्करत्नमयनखानां तवणिज्जजीहाणमित्यादि नव पदानि प्राग्वत् , महता-बहुव्यापिना गम्भीर:-अतिमन्द्रो गुलुगुलायितरवो-हितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयवाहावाहकानाह-'चन्दबिमाणस्स ण'मित्यादि, चन्द्रविमानस्य पश्चिमायांजिगमिपितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्राणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेताना सुभगानामित्यादि प्राग्वत्, चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुद-अंसकूट तेन शालिना-15 शोभायमानानां तथा घनवद्-अयोधनवनिचिताना-निर्भरभृतशरीराणामत एव सुबद्धाना-अश्लथानां लक्षणोन्नतानाप्रशस्तलक्षणानां तथा ईपदानतं-किञ्चिन्नम्रभावमुपागतं वृषभौष्ठं-वृषभी-प्रधानौ लक्षणोपेतत्वेनोष्ठौ यत्र तत्, समर्थ-18
विशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितं-कुटिल18 गमनं ललितं-बिलासबद्गमनं पुलितं-गतिविशेषः स याफाशक्रमणरूपः एषरूपा चलचपला-अत्यन्तचपला गर्विता H गतिर्येषां ते तथा सन्नतपार्थानां अधोऽधःपार्थचोरवनतत्वात् तथा सङ्गतपार्थाना-देहप्रमाणोचितपाश्चानां तथा
Sasasasasasa99
Jatrim
~1060~