________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [ १६६ ] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
||५२७||
धनः- स्त्यानीकृतं दधि गोक्षीरफेनः प्रसिद्धः, रजतनिकरो - रूप्यराशिस्तेषामिव प्रकाशः- तेजःप्रसारो येषा ते तथा तेषां, तथा स्थिरौ-दृढौ उष्टी-कान्ती प्रकोष्ठकों- कलाचिके येषां ते तथा, तथा वृत्ताः- वर्चुलाः पीवराः -पुष्टाः सुश्लिष्टाःअविवराः विशिष्टाः - तीक्ष्णा भेदिका या दंष्ट्रास्ताभिर्विडम्बितं विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीया दादाभिर्व्यात्तमुखा एव भवन्तीति, अथवा विडम्बितं धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः कर्मधारयस्तेषां तथा रक्तोत्पलपत्रवत् मृदुमुकुमाले - अतिकोमले तालुजिह्वे येषां ते तथा तेषां तथा मधुगुटिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां प्रायो हि हिंस्रजीवानां चक्षूंषि पीतवर्णानीति, तथा पीवरे - उपचिते वरे-प्रधाने ऊरू-जंघे येषां ते तथा, परिपूर्णः अत एव विपुलो - विस्तीर्णः स्कन्धो येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां तथा मृदवो विशदाः - स्पष्टाः सूक्ष्माः प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाः| प्रधानवर्णाः यी केसरसटा:- स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितं-ऊर्ध्वकृतं सुनमितं- सुष्ठु अधोमुखी| कृतं सुजातं -शोभनतया जातमास्फोटितं च-भूमावास्फालितं लाङ्गूलं यैस्तथा तेषां तथा वज्रमयनखानां तैलादित्वाद् द्वित्त्वं वज्रमयदंष्ट्राणां वज्रमयदंतानां त्रयाणामध्यवयवानामभङ्गुरत्वोपदर्शनार्थं वज्रोपमानं, तथा तपनीयमय जिह्वानां तथा तपनीयमयतालुकानां तथा तपनीयं योनकं प्रतीतं सुयोजितं येषु ते तथा तेषां कामेन - स्वेच्छया गमो - गमनं येषां ते तथा तेषां यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थः, अत्र 'युवर्णवृद्दवशरणगमृद्रह' ( श्रीसिद्ध० ५ -३ - २८७ )
For P&Praise City
~ 1057 ~
७वक्षस्कारे
चन्द्रादि
विमानवा
हकाः सू. १६६
॥५२७||