________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्कार [७],
मूलं [ १६२ ] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
मण्डले वर्त्तमाने सूर्ये, ततो यत् प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम्-वृत्तस्य वृत्तया इत्यादि, एतदेवाह - 'स्वकायमनुरङ्गिन्या' स्वस्य स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायस्तमनुरज्यते-अनुकारं विदधातीत्येवंशीला अनुरङ्गिनी 'द्विषद्महे 'त्यादिना' (श्रीसिद्ध ५-२-४० युजरखद्विप ० ) घिनञ्प्रत्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवस परावर्त्तते, एतदुक्तं भवति-आषाढस्य प्रथमादहोरात्रादारभ्य | प्रतिदिवसमन्यान्यमण्डल सङ्कान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति शेषं सुगमं, इदं च पौरुपीप्रमाणं व्यवहारत उक्तं, निश्वयतः सार्द्धंस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषी प्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रसिद्धाः करणगाथा: - 'पत्रे पण्णरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्ते जं लद्धं तं विआ नाहि ॥ १ ॥ जइ होइ बिसमलद्धं दक्खिणमयणं ठविज्ज नायवं । अह हवइ समं लद्धं नावचं उत्तरं अयणं ॥ २ ॥ अयणगए तिहिरासी चउग्गुणे पवपायभइयंमि । जं लद्धमंगुठाणि य खयवुडी पोरिसीए उ ॥ ३ ॥ दक्खिणबुडी दुपया अंगुठाणं तु होइ नायवा । उत्तरअयणे हाणी कायवा चउहि पायाहिं ॥ ४ ॥ साबणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ। चत्तारि अंगुलाई मासेणं वद्धए तत्तो ॥ ५ ॥ इकत्तीस इभागा तिहिए पुण अंगुलस्त चत्तारि । दक्खिणअयणे बुद्धी जाव य चत्तारि उ पयाई ॥ ६ ॥ उत्तरअयणे हाणी चउहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए
~1038~