________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
भवति तदा तस्या अर्वाक्तनी अमावास्या माघी - मघा नक्षत्रयुक्ता भवति यदा तु माघी - मधानक्षत्रयुक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या श्राविष्ठी- श्रविष्ठायुक्ता भवतीति, काक्का प्रश्नः, भगवानाह - हन्तेति भवति, तत्र गौतम ! यदा श्रविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात्, अयमर्थः - इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्य अर्वाक्तने पंचदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा अर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति, श्रविष्ठानक्षत्रादारभ्य मघानक्षत्रस्य पूर्व चतुर्दशत्यात्, अत्र सूर्यप्रज्ञसिचन्द्रप्रज्ञसिवृत्योस्तु मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशस्यादिति पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा भदन्त ! माघी मधानक्षत्रयुक्ता पूर्णिमा भवति तदा श्राविष्ठी- श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्व अविष्ठानक्षत्रस्य पंचदशत्वात् इदं च माघमासमधिकृत्य भावनीयं, यदा भदन्त ! प्रौष्ठपदी - उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा पाश्चात्या जमावास्या उत्तरफल्गुनी नक्षत्रयुक्ता भवति, उत्तरभद्रपदात् आरभ्य पूर्वमुत्तरफल्गुनीनक्षत्रस्य पञ्चदशश्वात्, एतच्च भाद्रपदमासमधिकृत्यावसेयं, यदा चोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रोष्ठपदी - उत्तरभद्रपदोपेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात् इदं च फाल्गुनमासमधिकृत्योकं, एवमेतेनाभिलापेन इमाः पूर्णिमा अमावास्याश्च नेतव्याः, यदा आश्विनी अम्बिनीनक्षत्रोपेता भवति तदा पाश्चात्यानन्तरा
Ja Ecu intematonal
For P&P Cy
~1030~