________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
पाढा उत्तराषाढा च एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा उत्तराषाढाच, आसां युगमध्येऽधिकमास सम्भवेन पण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रवणो धनिष्ठा, एतत् पूर्णिमावत्र्त्तिभ्यामश्लेषामघाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं समाधेयम्, एतदपि व्यवहारतः निश्चयतः पुनस्त्रीणि उत्तराषाढा अभिजित् श्रवणश्च, आसां पंचानामपीत्यादि पूर्ववत्, | तथा फल्गुनीं त्रीणि तद्यथा - शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा - धनिष्ठा शतभिषक् पूर्वभद्रपदा च, आसां पंचानामपीत्यादि तथैव तथा चैत्रीं द्वे नक्षत्रे - रेवती आश्विनी च, एतदपि व्यवहारतः | निश्चयतस्तु त्रीणि तद्यथा- पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा ( वैशाखी द्वे नक्षत्रेभरणी कृत्तिका च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-रेवती अश्विनी भरणी च, आसामपीत्यादि तथैव ) ज्येष्ठामूलीं द्वे-रोहिणी मृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तु इमे द्वे नक्षत्रे - रोहिणी कृत्तिका च, आसामपीत्यादि पूर्ववत्, तथा आषाढ़ीं त्रीणि नक्षत्राणि आर्द्रा पुनर्वसू पुष्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि - मृगशिरः आर्द्रा पुनर्वसू च, आसां युगान्तेऽधिकमास सम्भवेन पण्णामपि [पञ्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणना| मध्ये यत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात्, यत उक्तं समवायाङ्गे - "जम्बुद्दीवे २ अभिईवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारो वट्टइति । अथामावास्यासु कुलादियोजनाप्रश्नमाह - 'साविडिष्ण' मित्यादि, श्राविष्ठ
For P&False Cnly
~1028~