________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं वृत्तिः)
वक्षस्कार [७], ---
-------- मूलं [१६१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
युञ्जत् भरणीनक्षत्रं युनक्ति कार्तिकीमित्याद्युपसंहारवाक्यं प्राग्वत् इति, मार्गशीर्षी भदन्त ! पौर्णमासी किकुलं तदे-॥! वेति द्वे युक्तः, कोऽर्थः ?-कुलमुपकुलं वा युनक्ति न भवति कुलोपकुलं, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीषी पौर्णमासीमित्याद्युपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह-एवं सेसिआओ'इत्यादि, एवं शेषिका अपि-पौष्याद्यास्तावद्वक्तव्याः यावदापाढीपूर्णिमा इत्यर्थः, पौषी ज्येष्ठामूली च पूर्णिमा
कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनकि, शेषिकायां-माध्यादीनां कुलं वा युनक्ति उपकुलं वा ४ युनक्ति, कुलोपकुलं न भण्यते, तदभावादिति । अथामावास्याः-'साविटिपणं इत्यादि, श्राविष्ठीं-श्रावणमासभाविनी 18 अमावास्यां कति नक्षत्राणि युञ्जन्ति ?-यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति ?, भगवानाह-18
गौतम! द्वे नक्षत्रे युक्तः, तद्यथा-अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिनक्षत्रे पौर्णमासी भवति तत आरभ्यातिने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे चतु-18 देशे वा नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता ततोऽमावास्यायामष्यस्यां अश्लेषा मघा चोक्ता, लोके च तिथिगणितानुसारतो गतायामप्यमावास्यायां वर्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतो अमावास्याऽभूत् ततः सकलोऽप्यहोरात्रोऽमावास्येति व्यवहियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वम् ।
SO99930 అనిపించిన
JaEAKING
~ 1026~