________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपarविचन्द्री या पृचिः
॥५०९॥
स्थायाः पृष्टत्वात्, 'एकेन गुणितं तदेव भवती'ति जातस्तावानेव राशिः ततस्तस्माद् द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंरूपं पुनर्वसु शोध्यते, तत्र षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहर्त्ताः शुद्धाः स्थिताः पश्चात् चतुश्चत्वारिंशत् ४४, तेभ्य एकं मुहर्त्तमपकृष्य तस्य द्वाषष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते जाताः सप्तषष्टिः तेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्त्तेभ्यस्त्रिंशता मुहूर्त्तेः पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्त्त प्रमाणं, तत इदमागतं - अश्लेषानक्षत्रस्यैकस्मिन् मुहर्त्ते एकस्य च मुहर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिघाच्छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्यासनाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम् । अत्र पूर्णिमाप्रक्रमे यदमावास्याकरणमुक्तं तत्करणगाथानुरोधेन युगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च । अथ प्रस्तुतं पूर्णिमाकरणं 'इच्छापूष्णिमगुणिओ अबहारो सोऽत्थ होइ कायवो। तं चैव य सोहणगं अभिईआई तु कायवं ॥ १ ॥ सुमि अ सोहणगे जं सेसं तं हवेज णक्खतं । तत्थ य करेइ उदुवइ पडिपुण्णं पुष्णिमं विमलं ॥ २ ॥ यथा पूर्वममावास्या | चन्द्रनक्षेत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि -- पौर्णमासीचन्द्रनक्षत्र परिज्ञानविधौ ईप्सितपूर्णिमासीगुणित: यां पूर्णमासीं ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितः कर्तव्यः, गुणिते च सति तदेव पूर्वोक्तं शोधनकं कर्तव्यं, केवलमभिजिदादिकं न तु पुनर्वसुप्रभृतिकं, शुद्धे च शोधन के यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति
For P&False Cly
~1021~
वक्षस्कारे कुलादिपू
र्णिमामा
वास्याः सू. १६१
॥५०९ ॥