________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थ त्विदं प्रवचनप्रसिद्धं करणं भावनीयं- 'नाउमिह अमावासं जइ इच्छसि कंमि होइ रिक्खमि ? । अवहारं ठावेजा तत्तिअरूबेहिं संगुणिए ॥ १ ॥' याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिनक्षत्रे वर्त्तमाना परिसमाप्ता भवतीति यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्य|माणस्वरूपमवधार्यते - प्रथमतया स्थाप्यते इत्यवधार्थी - ध्रुवराशिः तमवधार्यराशि पट्टिकादी स्थापयित्वा सङ्गणयेत्, अथ किंप्रमाणोऽसावधार्यराशिरिति तत्प्रमाणनिरूपणार्थमाह- 'छावट्ठी य मुहुत्ता विसट्टिभागा य पंच पडिपुण्णा । बासट्टिभागसत्तद्विगो अ एको हवड़ भागो ॥ २ ॥ पट्षष्टिर्मुहर्त्ता एकस्य च मुहूर्त्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना - १२४ । ५२ अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते जाता दश तेषां च चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनश्छेद्यो राशिः पश्चक रूपोऽधस्तनो द्वापष्टिरूपः लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टा| दशभित्रिंशदधिकैः शतैः सप्तषष्टिभागरूपैः गुण्यन्ते जातानि एकनवतिः शतानि पञ्चाशदधिकानि ९१५०, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्ट्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४ उपरितनराशिर्मु
For P&Praise City
~1016~