SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [१८] दीप अनुक्रम [३२] चन्द्रप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृत [१], प्राभृतप्राभृत [६], मूलं [१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः रेण खलु निश्चितमेतेनोपायेन तत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्व शनैः शनैस्तत्तद्द्वहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तन्मण्डलान्निष्क्रामन् तदनन्तराम्मडलात्तदनन्तरं मण्डलं सङ्क्रामन् २ एकैकेन रात्रिन्दिवेन द्वे द्वे योजने अष्टाच त्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयन् २ प्रथमषण्मासपर्यवसानभूते व्यशीत्यधिकशततमे अहोरात्रे सर्व वाह्यं मण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया ण'मित्यादि, सुगमं, 'तथा ण'मित्यादि, तदा सर्वाभ्यन्तरं मण्डलं प्रणिधायअवधीकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, व्यशीतेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य, तथाहि एकैकस्मिन्नहोरात्रे द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयति, ततो द्वे द्वे योजने ज्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणि शतानि षट्षष्ट्यधिकानि ३६६, येऽपि चाष्टाचत्वारिंशदेकषष्टिभागा (ग्रंथानं | १००० ) स्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, तेषां योजनानयनार्थमेकपष्ट्या भागो हियते, लब्धं चतुश्चत्वारिंशं योजनशतं १४४, एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पश्च शतानि दशोत्तराणि ५१०, एतावत्प्रमाणं विकस्थ्य चारं चरति, 'तया ण'मित्यादि, रात्रिन्दिवपरिमाणं सुगमं, सर्व बाह्ये च मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैरभ्यन्तर सर्व बाह्यानन्तरद्वितीय मण्डलाभिमुखं तथा कथञ्चनापि मण्डलगत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्र पर्यवसाने सर्वग्राह्यमण्डलगतानष्टाचत्वारिंशतमेकपष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रम्य सर्ववाह्यानन्तरद्वितीयमण्डलसीमायां वर्त्तते, ततोऽनन्तरे द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्ववाद्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह— 'से पविसमाणे इत्यादि, Education Internation For Park Use Only ~76~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy