________________
आगम
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१७)
प्राभत [१] ....... ......--- प्राभतप्राभूत [६], .................- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
44
प्रत
सूत्रांक [१८]
चरति अत्रोपसंहारवाक्यं 'एगे एवमाहंसु'।तदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदय सम्प्रति स्वमतं भगवानुपदर्शयतिदा'वयं पुण'इत्यादि, वयं पुनरेव-वक्ष्यमाणप्रकारेण केवल ज्ञानोपलम्भपुरस्सरं वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिं-1
शच्चैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति, चारं चरन् आख्यात इति वदेत् , ४साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तं प्रश्नसूत्रमुपभ्यस्यति-तत्थ को हेतू इति वएज्जा' तत्र-एवंविधवस्तुत
त्वावगती को हेतुः, का उपपत्तिरिति वदेत् भगवान् , एवमुक्त भगवानाह–ता अयपण'मित्यादि, इदं जम्बूद्वीप-I वाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, 'ता जया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त:-परमप्रकर्षप्राप्त उत्कर्षकः-उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या च द्वादशमुहर्ता रात्रिः, 'से निक्खममाणे इत्यादि, ततः सर्वाभ्यन्तराममण्डलानिष्क्रामन् स सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अम्भितराणंतरं ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं-बहिर्भूतं द्वितीय मण्डलमुपसङ्कम्य चारं चरति, 'ता जया णमित्यादि, तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति, चारं चरितुमारभते, 'तदा 'मिति प्राग्वत्, वे योजने अष्टाचत्वारिंशतं च एकषष्टि|भागान् योजनस्य एकैकेन राबिन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारं चरति, इयमत्र भावना-सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्वं शनैः शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखं तथा कथंचन मण्डलगत्या परिश्रमति यथा तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्थापरे च द्वे योजने अतिकान्तो भवति,
ॐॐॐॐॐॐ
दीप
अनुक्रम
[३२]
~ 74~