SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [४], ------------------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ- तिवृत्तिः प्रत १ प्राभृते ४ प्राभृतप्राभूत (मल.) सूत्रांक [१५] दीप अनुक्रम [२९] प्राप्यते इति भवति यथोकमत्रान्तरपरिमाणं,'तया णमित्यादि, यदा सर्वाभ्यन्तरान्मण्डलात् तृतीये मण्डले चार चरत- स्तदा अष्टादशमुहत्तों दिवसो भवति, चतुर्भिः 'एमट्ठिभागमुहत्तेहिं' प्राकृतत्वात्पदव्यत्यासः, ततोऽयमर्थः-मुहत्तैकप- ष्टिभागैरूनो, द्वादशमुह रात्रिश्चतुर्भिमुहसंकषष्टिभागैरधिका, एव'मित्यादि, एवमुक्तेन प्रकारेण खलु निश्चितमेतेनोपायेन | प्रतिमण्डलमेकतोऽप्येकः सूर्यो द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् विकम्प्य चार चरति, अपरतोऽप्यपरः सूर्य इत्येवरूपेण निष्कामन्तौ तौ जम्बूद्वीपगतौ द्वौ सूर्यों पूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सामन्ती एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षया पश्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्ध-* यन्तावभिवर्धयन्ती नवसूर्यसंवत्सरस्य त्र्यशीत्यधिकशततमेऽहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्ववाह्यमण्डलमुपसङ्कम्य चारं चरतः, 'ता जया ण'मित्यादि ततो यदा एतौ द्वौ सूर्यों सर्वबाह्यं मण्डलमुपसङ्गम्य चारं चरतः तदा तावेक योज-2 नशतसहस्रं षटू च शतानि षष्ठ्यधिकानि १००६६० परस्परमन्तरं कृत्वा चारं चरतः, कथमेतदवसेयमिति चेत् ?, उच्यते, इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्धमानं प्राप्यते, सर्वाभ्यअन्तराच मण्डलात्सर्ववाद्यं मण्डलं त्र्यशीत्यधिकशततम, सतः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि योजनानां ९१५, एकपष्टिभागाश्च पञ्चत्रिंशत्सङ्ख्या अशीत्यधिकेन शतेन गुण्यन्ते जातानि | तेषां चतुःषष्टिशतानि पश्चोत्तराणि ६४०५, तेषामेकषष्ट्या भागे हते लब्ध पश्चोत्तरं योजनशतं १०५, एतत्प्राक्तने योजनराशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि योजनानि १०२०, एतत् सर्वाभ्यन्तरमण्डलगतोत्तरपरिमाणे ॥२७॥ S ~61~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy