________________
आगम
(१७)
सूत्रांक [१००]
-
गाथा:
अनुक्रम [१३३
-१९६]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [ १०० ] + गाथा: आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित
नक्षत्रेण युक्ताः सूर्याः पुनर्भवन्ति पुष्यैर्युक्ता इति । 'चंदाओ' इत्यादि, मनुष्यक्षेत्राद्वहिश्चन्द्रात् सूर्यस्य सूर्याच्च चन्द्रस्यान्तरं भवति अन्यूनानि परिपूर्णानि योजनानां पञ्चाशत्सहस्राणि । तदेवं सूर्यस्य चन्द्रस्य च परस्परमन्तरमुकं, सम्प्रति चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, मानुषनगस्य मानुषोत्तरपर्वतस्य बहिः सूर्यस्य २ परस्परं चन्द्रस्य २ च परस्परमन्तरं भवति योजनानां शतसहस्रं लक्षं, तथाहि - चन्द्रान्तरिताः सूर्याः सूर्यान्तरि ताश्चन्द्राः व्यवस्थिताः चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशत् योजनसहस्राणि ५००००, ततश्चन्द्रस्य सूर्यस्य च परस्प रमन्तरं योजनानां लक्षं भवतीति । सम्प्रति बहिश्चन्द्रसूर्याणां पङ्काववस्थानमाह--'सूरतरिया' इत्यादि, नृलोकाइ हिः पङ्कया स्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकरा दीता - दीप्यन्ते स्म दीप्ता भास्क (स्व) रा इत्यर्थः, कथंभूतास्ते चन्द्रसूर्या इत्याह- 'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां च चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरमित्वात् सूर्याणामुष्णश्मित्वात् । लेश्याविशेषप्रदर्श नार्थमेवाह-'सुहलेसा मंदलेसा य' सुखलेश्याश्चन्द्रमसो न शीतकाले मनुष्यलोक इवात्यन्तशीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्याः न तु मनुष्यलोके निदाघसमये इव एकान्तोष्णरश्मय इत्यर्थः, आह च तत्त्वार्थटीकाकारो हरिभद्रसूरिः"नात्यन्तशीताश्चन्द्रमसो नाप्यत्यन्तोष्णाः सूर्याः, किन्तु साधारणा द्वयोरपीति । इहेदमुक्तं यत्र द्वीपे समुद्रे वा नक्षत्रादिपरिमाणं ज्ञातुमिष्यंते तत्र एकशशिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः शशिभिर्गुणयितव्यमिति तत एकशशिपरिवारभूतानां ग्रहादीनां सामाह- 'अट्ठासीई गहा' इत्यादि, गाधाद्वयं निगदसिद्धं । 'अंतो माणुसखे से' इ
For Pasta Use Only
~ 568~