________________
आगम
(१७)
प्रत
सूत्रांक
[५]
दीप
अनुक्रम [११७]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१५],
प्राभृतप्राभृत [-],
मूलं [८५]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Jin Eucator
लस्य त्रिंशतमेकपष्टिभागान् तथाहि यदि एकपट्या कर्म्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे १, राशित्रयस्थापना । ६१ । ८८४ । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य एकपट्या भागहरणं लब्धानि परिपूर्णानि चतुर्द्दश मण्डलानि पञ्चदशस्य चिमण्डलस्य त्रिंशदेकपष्टिभागाः । १४ । । 'ता उमासेण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता पन्नरसेत्यादि, पञ्चदश परिपूर्णानि मण्डलानि चरति, तथाहि यद्येकपट्या कर्ममासैर्नव शतानि पञ्चदशोत्तराणि सूर्यमण्डलानां लभ्यन्ते तत एकेन कर्म्ममानेन किं लभामहे ?, राशित्रयस्थापना । ६१ । ९१५ | १| अत्रान्त्येन
राशिना मध्यराशिर्गुण्यते जातः स तावानेव तस्य एकपट्या भागहरणं रब्धानि परिपूर्णानि पञ्चदश मण्डलानि १५, ५ 'ता उमासेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - ता पन्नरसे त्यादि, पञ्चदश मण्डलानि चरति, ॐ पोडशस्य च मण्डलस्य पश्च द्वाविंशशतभागान् तथाहि यदि द्वाविंशेन कर्ममासशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना १२२ । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्याद्येन राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं लब्धानि पञ्चदश मण्डलानि पोडशस्य च पञ्च द्वाविंशशतभागाः १५ । १२२ । सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति- 'ता आइचेण 'मित्यादि, ता इति पूर्ववत्, आदित्येन मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य एकादश पञ्चभागान् तथाहि--यदि पष्ट्या सूर्यमासैरष्टौ
For Par Use Only
~510~
wor