________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], ------------------- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [७२
दीप
नव शतानि मुहूर्तगतसप्तषष्टिभागानां ५४९००, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धानि अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागा इति ८१९ । ३७,'ता एस 'मित्यादि, एषाअनन्तरमुक्ता नक्षत्रमासरूपा अद्धा द्वादशकृत्वः कृता, द्वादशभिवारगुणिता इत्यर्थः, नक्षत्रसंवत्सरो भवति, सम्प्रति सकलनक्षत्रसंवत्सरगतरात्रिन्दिवपरिमाणमुहूर्त्तपरिमाणविषयप्रश्ननिवेचनसूत्राण्याह-ता से 'मित्यादि, सुगम, नवरं रात्रिन्दिवचिन्तायां नक्षत्रमासरात्रिन्दिवपरिमाणं मुहूर्त्तचिन्तायां नक्षत्रमासमुहुर्तपरिमाणं द्वादशभिर्गुणितव्य ततो यथोका रात्रिदिवसङ्ग्या मुहूर्तसङ्ख्या च भवति, 'ता एएसि ण'मित्यादि, सुगर्म, भगवानाह-'ता एगूणतीसमित्यादि, एकोनत्रिंशत् रात्रिन्दिवानि द्वात्रिंशच द्वापष्टिभागा रात्रिन्दिवस्य एतावत्परिमाणश्चन्द्रमासो रात्रिन्दिवानेणाख्यात इति वदेत् , तथाहि-युगे द्वापष्टिश्चन्द्रमासाः, एतच्च प्रागपि भावितं, ततो युगसत्कानामष्टादशानामहोरात्रशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वापष्टिभागाः २९ । ३३ । 'ता से णमित्यादि, प्रश्नसूत्रं सुगम, भगवानाह–ता अट्टे'त्यादि, अष्टौ मुहर्तशतानि पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशत् द्वापष्टिभागाः, एतावत्परिमाणश्चन्द्रमासो मुहर्ताओणाख्यात इति वदेत् , तथाहि-चन्द्रमासपरिमाणमेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वापष्टिभागाः, तत्र सवर्णनार्थमेकोनत्रिंशदप्यहोरात्रा द्वापश्या गुण्यन्ते, गुणयित्वा च उपरितना द्वात्रिंशद् द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि द्वापष्टिभागानां १८३०, तत एतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि नव शतानि मुहूर्तगतद्वापष्टि
अनुक्रम
[१०३]
~414~