________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६१-६२]
द्रष्टव्यं 'दो रोहिणी दो पुणवसू दो उत्तरफग्गुणी दो विसाहा दो उत्तरासादा' इति, एतानि. हि नक्षत्राणि क्षेत्राणि ! ततः सप्तपष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः शतमेकमर्थं च प्रत्येकमवगन्तव्याः, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पञ्चदशेति । 'ना एएसि ण'मित्यादि, ता इति तत्र तेषां षट्पश्चाशतो नक्षत्राणां मध्ये किं नक्षत्रं यत् सदा प्रातरेव चन्द्रेण सार्द्ध योग युनक्ति ,किं नक्षत्रं यत्सदा सायं-दिवसावसानसमये चन्द्रेण सार्द्ध योग युनक्ति, किं तन्नक्षत्रं यत्सदा द्विधा-प्रातः सायं च समये प्रविश्य २ चन्द्रेण सार्द्ध योग युनक्ति, भगवानाह-ता एएसि ण'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तन्नक्षत्रमस्ति यत्सदा प्रातरेव चन्द्रेण सार्द्ध योग युनक्ति, किं सर्वथा नेत्याह-'नसत्धेत्यादि. नेति प्रतिषेधोऽन्यत्र द्वाभ्यामभिजिद्भ्यामवसेयः, कस्मादित्याह-ता एएसि ण'मित्यादि ता इति तत्र-तेषां षट्पश्चाशतो नक्षत्राणां मध्ये एते-अनन्तरोदिते द्वे अभिजितौ-अभिजिन्नक्षत्रे युगे युगे प्रातरेव पातरेव चतुश्चत्वारिंशत्तमाममा-४ वास्यां चन्द्रेण सह योगमुपगम्य युकः-परिसमापयतः, नो चैव पौर्णमासी, अथ कथमेतदवसीयते, यथा युगे युगे चतुश्चत्वारिंशत्तमा २ ममावास्यां सदैव प्रातः समये अभिजिन्नक्षत्रं चन्द्रेण साई योगमुपागम्य परिसमापयतीति , उच्यते, पूर्वाचार्योपदर्शितकरणवशात् , तथाहि-तिथ्यानयनार्थं तावत्करणमिदं-'तिहिरासिमेव बावहिभाझ्या सेसमेगसद्विगुणणं| च । बावडीऍ विभत्तं सेसा अंसा तिहिसमत्ती॥१॥" अस्या अक्षरगमनिका ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथिराश्यानयनाथै त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वापया हियते, हृते च भागे यदवतिष्ठते तस्मिन्नेकपल्या
दीप अनुक्रम [९२-९३]
AREauratoninternational
~364~