SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१५], -------------------- मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४९) दीप अनुक्रम [७२] द्वितीयस्यामात्मीयाभ्यां द्वाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ, तृतीयस्यामात्मीय खिभिः पञ्चदशभागैत्रीन् पश्चदशभागान, एवं यावदमावास्यायां पश्चदश भागानावृणोति, ततः शुक्लपक्षे प्रतिपदि एकं पञ्चदशभागं प्रकटीकरोति, द्वितीयस्यां दी पश्चदशभागी तृतीयस्यां त्रीन् पश्चदशभागान् एवं यावत् पञ्चदश्यां पञ्चदशापि भागाननावृतान् करोति, तदा च सर्वात्मना परिपूर्ण चन्द्रमण्डलं लोके प्रकटं भवति, वक्ष्यति चामुमर्थमग्रेऽपि सूत्रकृत्-'तत्थ णं जे से धुवराइ से णं बहुलपक्खस्स पडिवए पण्णरसभागेण' मित्यादिना ग्रन्थेन, तत्र यावता कालेन कृष्णपक्षे पोडशो भागो द्वापप्टिभागसत्कचतुर्भागात्मको हानिमुपगच्छति स तावान् कालविशेषस्तिथिरित्युच्युते, तथा यावता कालेन शुक्लपक्षे षोड| शभागो द्वापष्टिभागसत्कभागचतुष्टयप्रमाणः परिवर्द्धते तावत्प्रमाणः कालविशेषस्तिधिर्भवति, उक्तं च-"सोलसभागा काऊण उडुवई हायएत्थ पन्नरस । तित्तियमित्ते भागे पुणोऽवि परिवहुए जोण्हे ॥१॥ कालेण जेण हायइ सोलस भागो उ सा तिही होइ । तह चेव य वुडीएएवं तिहिणो समुप्पत्ती ॥२॥" अत्र 'जोण्हे' इति जोत्स्ने शुक्लपक्षे इत्यर्थः, शेषं सुगम, अयं च पूर्वाचार्यपरम्परायात उपनिषदुपदेश:-अहोरात्रस्य द्वापष्टिभागप्रविभक्तस्य ये एकषष्टिभागास्तावत्प्रमाणा तिथिरिति, अथाहोरात्रस्त्रिंशन्मुहूर्तप्रमाणः सुप्रतीतः, प्रागेव सूत्रकृता तस्य तावत्प्रमाणतयाऽभिधानात्, तिथिस्तु किंमुहूर्तप्रमाणेति !, उच्यते, परिपूर्णा एकोनत्रिंशन्मुहर्ता एकस्य च मुहूर्तस्य द्वात्रिंशद् द्वापष्टिभागाः, उक्तं च"अउणत्तीसं पुन्ना उ मुहुत्ता सोमओ तिही होइ । भागावि य बत्तीर्स बाव(दुस)हिकाएण छेएणं ॥१॥" कथमेतदवसीयते इति चेत्, उच्यते, इह अहोरात्रस्य द्वापष्टिभागीकृतस्य सत्का ये एकषष्टिभागास्तावत्यमाणा तिथिरित्युच्यते, तत्रैकषष्टि ~ 304~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy