________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [७], -------------------- मूलं [४०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१७], उपांग सूत्र - [६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
+
सूत्रांक
[४०]
'ता कहते'इत्यादि, ता इति पूर्ववत् , कथं :-केन प्रकारेण भगवन् ! स्वया चन्द्रयोगमधिकृत्य पौर्णमास्यमावास्यानां सन्निपात आख्यात इति वदेत् १, एवमुक्ते भगवानाह-'ता जया ण'मित्यादि, इह व्यवहारनयमतेन यस्मिनक्षत्रे पौर्ण- &
मासी भवति तत आरभ्याक्तिने पञ्चदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी-श्रविष्ठानक्षत्र४ायुक्का पौर्णमासी भवति तदा तस्यामक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ता भवति, मधानक्षत्रादारभ्य श्रविष्ठान-I &ाक्षत्रस्य पश्चदशरवात्, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा तु णमिति वाक्यालकारे माघी-मपानक्षत्रयुका पौर्ण-t
मासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी-श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्व अविष्ठानक्षत्रस्य पश्चदश-17 त्वात् , एतच्च माघमासमधिकृत्य वेदितव्यं, तथा 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रस्य पश्चदशत्वात् , यत्त्वपान्तराले अभिजिन्नक्षत्रं तरस्तोककालत्वात् प्रायो: न व्यवहारपथमवतरति, तथा च समवायानसूत्रम्-'जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्तेहिं सैववहारो वट्टइ'त्ति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रमिति, एतच भाद्रपदमासमधिकृत्योकमवसे यं, 'जयाण'मित्यादि, यदाच फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदापा-1 श्चात्या अमावास्या पौष्ठपदी-उत्तरभाद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात्, इदं |च फाल्गुनमासमधिकृत्योतं, 'जया ण'मित्यादि, यदा च आश्वयुजी-अश्वयुग्नक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्या
दीप अनुक्रम
[५४]]
Fhi
~ 264~