SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९] अद्वारसमुहत्ताणंतरे दिवसे हवइ तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरच्छिमपच्चत्थिमे सातिरेगदुवालसमुहत्ता राई भवइ, ता जया णं जंबुद्दीवे दीवे मंदरस्स पचयस्स पुरच्छिमेणं अट्ठारसमुहुत्ताणतरे दिवसे हवइ तया णं पचत्थिमेणं अहारसमुहत्ताणतरे दिवसे हवइ, जया णं पञ्चस्थिमेणवि अहारसमुहत्ताणतरे दिवसे भवइ तया णं जंबुद्दीचे दीवे मंदरस्स पबयस्स उत्तरदाहिणे णं साइरेगदुवालसमुहुत्ता राई भवइ, एवं सप्तदशमुहुर्त्तदिवसादिप्रतिपादका अपि सूत्रालापका भावनीयाः, 'ता जया 'मित्यादि तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणा वर्षाणां-वर्षाकालस्य प्रथमः समयः प्रतिपद्यते-भवति तदा उत्तरार्थेऽपि वर्षाणां प्रधमः समयो भवति, समकालनैयत्येन दक्षिणा उत्तरार्द्धं च सूर्ययोश्चारभावात् , यदा चोत्तरार्द्ध वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चत्थिमेणं' पूर्वस्यासपरस्यां च दिशि 'अर्णतरपुरक्खडे'त्ति अनन्तरं--अव्यवधानेन पुरष्कृतः-अग्रेकृतो यः सोऽनन्तरपुरस्कृतोऽनन्तरं द्वितीय इत्यर्थः, तस्मिन् 'कालसमयंसित्ति समयः सङ्केत्तादिरपि भवति ततस्तव्यवच्छेदार्थ कालग्रहणं, कालश्चासौ समयश्च कालसमयः, तत्र वर्षाकालस्य प्रथमः समयः प्रतिपद्यते-भवति, किमुक्त भवति !-यस्मिन् समये दक्षिणाोत्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवति तस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति, 'ता जया णमित्यादि, तत्र यदा 'ण'मिति प्राग्वत् जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि वर्षाकालस्य प्रथमः समयो भवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति, सर्वकालनयत्येन पूर्वपश्चिमयोरपि सूर्ययोश्चारचरणात्, यदा च पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे दीप अनुक्रम [४३] ~186~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy