________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२५]
%%B555
दीप अनुक्रम [३९]
रोदितायां वस्तुच्यवस्थायां को हेतुः ?-का उपपत्तिरिति भगवान् वदेत् !, एवमुक्त भगवानाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्य पूर्ववत् परिपूर्ण भावनीय, 'ता जया 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य |चार चरति तदा 'उद्धमुहकलंबुयापुप्फे'त्यादि, प्राग्वत् व्याख्येयं यावत्सर्वाभ्यन्तरा वाहा सर्वबाह्या च वाहा, 'तीसे
'मित्यादि, तस्यास्तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते-मेरुपर्वतसमीपे, सा च परिक्षेपेण-मन्दरपरिक्षेपग-12 ततया नव योजनसहस्राणि चत्वारि योजनशतानि पडशीत्यधिकानि नव च दशभागा योजनस्य ९४८६ आख्याता मया इति वदेत्, एवमुक्ते भगवान् गौतमः प्रश्नयति-ता से ण'मित्यादि, ता इति प्राग्वत् , स तापक्षेत्रसंस्थितपरिक्षेपविशेषो-मंदरपरिरयपरिक्षेपणविशेषः कुतः-कस्मात्कारणादेवंप्रमाण आख्यातो नोनोऽधिको वेति वदेत् , भगवानाह-ता जे ण'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालकारे मन्दरस्य-मेरोः पर्वतस्य परिक्षेप-परिरयगणितप्रसिद्धस्तं परिक्षेपं त्रिभिर्गुणयित्वा तदनन्तरं च दशभिश्छित्त्वा-विभज्य, अथ कसमादेवं क्रियत इति चेत् , उच्यते, इह सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत्तच्चक्रवालक्षेत्रप्रमाणानुसारेण त्रीन् दशभागान् प्रकाशयति, एतच मागेवोर्क, सम्प्रति च मन्दरसमीपे तापक्षेत्रे चिन्ता क्रियमाणा वर्त्तते ततो मन्दरपरिरयः सुखावबोधार्थे प्रथमतस्त्रि(भिर्गुण्यते गुणयित्वा च दशभिर्विभज्यत इति, दशभिश्च भागे हियमाणे यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति, तथाहि-मन्दरपर्वतस्य विष्कम्भो दश सहस्राणि १०००० तेषां वर्गो दश कोब्यः १०००००००० तासां दशभिर्गुणने कोटिसतं १००००००००० अस्य वर्गमूलानयने लब्धानि एकत्रिंशत्सहस्राणि पट् शतानि किश्चिन्यूनत्रयोविंशत्यधिकानि
~150~