________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [-1, ------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
SALM
दीप
सद्भावाजना-नगरीवास्तव्या लोका जानपदा-जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, यावच्छन्देनीपपातिकग्रन्थप्रतिपादितः समस्तोऽपि वर्णकः 'आइन्नजणसमूहा(मणुस्सा) इत्यादिको द्रष्टव्यः, (सू.१)स च ग्रन्थगौरवभयान लिख्यते, केवलं तत एवौपपातिकादवसेयः, कियान् द्रष्टव्य इत्याह-पासाईया एक' इति अत्र कशब्दोपादानात् प्रासादीया इत्यनेन पदेन सह पदचतुष्टयस्य सूचा कृता, तानि च पदान्यमूनि-प्रासादीया दर्शनीया अभि| रूपा प्रतिरूपा, तत्र प्रासादेषु भवा प्रासादीया प्रासादबहुला इत्यर्थः, अत एव दर्शनीया-द्रष्ट योग्या, प्रासादानामतिरमणीयत्वात् , तथा अभिमुखमतीवोक्तरूपं रूपं-आकारो यस्याः सा अभिरूपा प्रतिविशिष्ट-असाधारणं रूपं-आकारो यस्याः सा प्रतिरूपा, 'तीसेणं मिहिलाए नयरीए बहिया उत्तरपुरछिमे दिसीभाए एत्थ णं माणिभद्दे नाम चेइए होत्था वण्णओं' इति तस्या मिथिलानगर्या बहिर्य औसरपौरस्त्यः-उत्तरपूर्वारूपो दिग्विभाग ईशानकोण इत्यर्थः, एकारोल मागधभाषानुरोधतः प्रथमैकवचनप्रभवः,यथा कयरे आगच्छइ दित्तवे'(उत्त०१२-६)इत्यादौ,'अत्र' अस्मिन् औत्तरपौरस्त्ये दिग्विभागे माणिभद्रमिति नाम चैत्यमभवत्, चितेर्लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्चसंज्ञाशब्दत्वाद्देवताप्रतिविम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचाराचैत्य, तच्चेह व्यन्तरायतनं द्रष्टव्यं, नतु भगवतामहतामायतनमिति,
वण्णओ'त्ति तस्यापि चैत्यस्य वर्णको वक्तव्यः, स चौपपातिकग्रन्थादवसेयः (सू.२)। तीसेणं मिहिलाए'इत्यादि, तस्या ४ाच मिथिलायां नगर्यो जितशत्रुर्नाम राजा, तस्य देवी-समस्तान्तःपुरप्रधाना भार्या सकलगुणधारणा धारिणीनाम्नी ला देवी, 'वण्णओ'त्ति तस्य राज्ञः तस्याश्च देव्या औषपातिकग्रन्थोक्को वर्णकोऽभिधातव्यः, (सू.७) तेणं काले णं तेणं समए
अनुक्रम
[१]
सूत्रस्य प्रस्तावना, माणिभद्रचैत्यस्य वर्णनं
~8~