________________
आगम
(१६)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [२५]
प्राभृत [१] मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [४],
मूलं [१५]
आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
स्यान्तरं कृत्वा जम्बुद्वीपे द्वौ सूर्यो चारं चरतश्चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत्, अत्रैवोपसंहारमाह- 'एके एवमाहू'रिति, एवं सर्वत्राप्यक्षरयोजना कर्त्तव्या, एके पुनर्द्वितीयास्तीर्थान्तरीया एवमाहुः - एक योजनसहस्रमेकं च चतुस्त्रिंशंचतुस्त्रिंशदधिकं योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके तृतीयाः पुनरेवमाहुः - एकं योजनसहस्रं एकं च पचत्रिंशदधिकं योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके पुनश्चतुर्था एवमाहुः- एक द्वीपं एकं च समुद्रं परस्परमन्तरं कृत्वा चारं चरतः, एके पुनः पञ्चमा एवमाहुः- द्वौ द्वीप द्वौ समुद्रौ परस्परमन्तरं कृत्वा चारं चरतः, एके षष्ठाः पुनरेवमाहुः- त्रीन् द्वीपान् त्रीन् समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति । एते च सर्वे तीर्थान्तरीया मिथ्यावादिनोऽयथातत्ववस्तुव्यवस्थापनात्, तथा चाह- 'वयं पुणे इत्यादि, वयं पुनरासादित केवलज्ञानलाभाः परतीर्थिकव्यव| स्थापितवस्तुव्यवस्थाव्युदासेन 'एवं' वक्ष्यमाणप्रकारेण केवलज्ञानेन यथावस्थितं वस्तुतत्त्वमुपलभ्य वदामः कथं वदध यूयं भगवन्त इत्याह- 'ता पंचे'त्यादि, 'ता' इति आस्तामन्यद्वक्तव्यं इदं तावत्कथ्यते, द्वावपि सूर्यो सर्वाभ्यतरान्मण्डलान्निष्क्रामन्ती प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य पूर्वपूर्वमण्डलगतान्तरपरिमाणे अभिवर्द्धयन्तो वाशब्द उत्तरविकल्पापेक्षया समुच्चये 'निबुट्टेमाणा वा' इति सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ प्रतिमण्डलं पच पच योजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डलगतान्तरपरिमाणात हापयन्ती, वाशब्दः पूर्वविकल्पापेक्षया समुच्चये, सूर्यौ चारं चरतः, चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत्, एवमुक्ते भगवान् गौतमो निजशिष्य निःशङ्कितत्वव्यवस्थापनार्थे भूयः प्रश्नयति- 'तत्थ णमित्यादि, तत्र एवंविधाया वस्तुतत्त्व
Educatory Internationa
For Pal Use Only
~ 56~