________________
आगम
(१६)
प्रत
सूत्रांक
[co]
दीप
अनुक्रम [१०८]
प्राभृत [१३], मुनि दीपरत्नसागरेण संकलित.
सूर्यज्ञ
भिवृत्तिः
( मल० )
॥२३६॥
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
-
Jin Eucator
प्राभृतप्राभृत [-],
मूलं [ ८० ]
. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
युगे पौर्णमासीनां द्वापष्टिकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात्, तथा युगे सर्वसङ्ख्या एक चतुर्विंशत्यधिकं पर्वतं अमावास्या पौर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वापष्टिसङ्ख्यानामेकत्र मीलने चतुर्विशत्यधिकशतभावात् एवमेव च युगमध्ये सर्वसङ्कलनया चतुर्विंशत्यधिकं कृत्स्नरागविरागशतं, 'जावइयाण' मित्यादि, यावन्तः पञ्चानां चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धित रूपाणां समया एकेन चतुर्विंशत्यधिकेन समयशतेनोना एतावन्तः | परीताः परिमिताः असङ्ख्याता देशरागविरागसमया भवन्ति, एतेषु सर्वेष्यपि चन्द्रमसो देशतो रागविरागभावात्, यतु चतु विंशत्यधिकं समयशतं तत्र द्वापष्टिसमयेषु कृत्स्नो रागो द्वाष्टौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्जनं इत्याख्यातं मयेति गम्यते एतच्च भगवद्वचनमतः सम्यकू श्रद्धेयमिति, सम्प्रति कियत्सु मुझसेंषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्सु वा मुहूर्त्तेषु गतेषु पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-'ता अमावासातो ण'मित्यादि, सुगमं, नवरं अमावास्याया अनन्तरं चन्द्रमासस्याद्धेन पौर्णमासी पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या अमावास्याया श्यामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्ता मुहूर्त्ता, उपसंहारमाह- 'एस ण' मित्यादि, एषः- अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच्च द्वापष्टिभागा मुहूर्त्तस्येत्येतावान् एतावत्प्रमाणश्चन्द्रमासः, एतत् एतावत्प्रमाणं शकलं खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेतदित्यर्थः ॥ सम्प्रति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थं प्रश्नसूत्रमाह-
ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोदस चउन्भागमंडलाई चरति एवं च चवीस
For Penal Use On
~ 477 ~
१३ प्राभृते पूर्णिमावा
स्यान्तरं सू८०
॥२३६॥