________________
आगम
(१६)
प्रत
सूत्रांक
[१२-१३]
दीप
अनुक्रम [२२-२३]
सूर्य
सिवृतिः
( मल० )
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
प्राभृत [१], मुनि दीपरत्नसागरेण संकलित.
Education international
प्राभृतप्राभृत [२]
मूलं [१२-१३] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
॥ १९ ॥
क्षिणदिग्भाविनोऽन्तरादक्षिणदिग्भाविसर्वबाद्यानन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योजन कषष्टिभागाभ्यधिकतदनन्तरा- ४ र्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपाङ्गागाद्विनिःसृत्य 'तस्साइपएसाए' इति तस्य सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्तरार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थि४ तिमुपसङ्क्रम्य चारं चरति, अत्रापि चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्ध मण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टव्यो येन तदहोरात्रपर्यन्ते सर्व वाह्यादर्द्ध मण्डलात्तृतीयामर्वाकनीमर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहर्त्ता रात्रिश्चतुर्भिर्मुहतैकपष्टिभागैरुना भवति, द्वादशमुहूर्त्तश्च दिवसश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरभ्यधिकः, 'एव' मित्यादि, एवम्-उक्तप्रकारेण खलु निश्चितमेतेनोपायेन - प्रत्यहोरात्रमभ्यन्तरमष्टा चत्वारिंशद्यो जनैकषष्टिभागयोजनद्वयविकम्पनरूपेण | शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराट् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा तां तामर्द्धमण्डलसंस्थितिं सङ्क्रामन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भा| विनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् व्यशीत्यधिकशततमं मण्डलं तद्गताष्टाचत्वारिंशद्योजनैकपष्टिभागाभ्यधिकतदनन्तराभ्यन्तर योजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपरसाए' इति तस्य - सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्वार्द्ध मण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तरबाह्योत्तरार्द्ध मण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते | सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणा
For PanalPrata Use Only
~ 43~
१ प्राभृते
३ प्राभृतप्राभृर्त
॥ १९ ॥