SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ६९ ] दीप अनुक्रम [९६] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [२२], प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः मूलं [ ६९ ] सूर्यप्रज्ञ शिवृत्तिः ( मल० ) ॥१९६॥ ४ त्रीणि चाहोरात्रशतानि षट्षष्ट्यधिकानि एकः सूर्यसंवत्सरः, ततोऽन्यैस्त्रिभिरहोरात्रशतैः षट्षष्ट्यधिकैरन्यानि द्वितीयास्यष्टाविंशतिं नक्षत्राणि परिभुङ्क्ते, तदनन्तरं भूयस्तान्येव प्रथमान्यष्टाविंशतिं नक्षत्राणि तावत्याहोरात्रसङ्ख्या क्रमेण युनक्ति, ततः षट्षष्ट्यधिकरात्रिन्दिवशतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह योगो न तु तेनैव, 'ता जेण'मित्यादि, इदं सूत्रमक्षरार्ध प्रतीत्य सुगमं, भावना तु प्रागेव कृता,'ता जेण'मित्यादि, ता इति पूर्ववत्, अथ-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि अष्टादश रात्रिन्दिवशतानि त्रिंशतानि - त्रिंशदधिकानि उपादाय अतिक्रम्य पुनरपि तस्मिन्नेव देशेऽन्येनैव तादृशेन सह योगं युनक्ति, न तु तेनैव, कस्मादिति चेत्, उच्यते, इह रात्रिन्दिवानामष्टादश शतानि त्रिंशदधिकानि युगे भवन्ति, तत्र सूर्यो विवक्षिताद्दिनादारभ्य तस्मि- 3) शेव देशे तदैव दिने तेनैव' नक्षत्रेण सह योगमागच्छति तृतीयसंवत्सरे, युगे च सूर्यवर्षाणि पश्च ततस्तृतीये पञ्चमे वा सूर्यसंवत्सरे सूर्यस्य तेनैव नक्षत्रेण तस्मिन्नेव काले योगमादत्ते न तु युगातिक्रमे षष्ठे वर्षे इति, 'ता जेण'मित्यादि, सुगमं, नवरं षटूत्रिंशद्वात्रिन्दिवशतानि पश्यधिकानि युगद्वये भवन्ति, युगद्वये च दश सूर्यनक्षत्राणि ( ग्रंथानं ६००० ), ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेव देशे योग उत्पद्यते इति । इह जम्बूहीपे द्वौ चन्द्रमसौ द्वौ सूर्यो, एकैकस्य चन्द्रमसो भिन्नो महादिकः परिवार इति श्रुत्वा कश्चिदेवमपि मन्येत यथा निकाल मण्ड|लेषु चन्द्रादीनां गतिर्भिशकालं च तेषां नक्षत्रादिभिः सह योग इति, ततस्तदाशङ्कापनोदार्थमाह । ता जया णं इमे चंद्रे गतिसमावण्णए भवति तता णं इतरेवि चंदे गतिसमावण्णए भवति, जता णं इतरेवि Eucation International For Penal Use Only ~397~ १० प्राभृते २२ प्राभूतप्राभृते तादृगन्यनक्षत्रयोगः सू ६९ ॥ १९६ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy