________________
आगम
(१६)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [२१]
सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः)
प्राभृत [१] मुनि दीपरत्नसागरेण संकलित.
ucaton Internationa
मूलं [११]
प्राभृतप्राभृत [१], आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
पवृद्धी रात्रिन्दिवानां कथं भवत इत्याह-'मुहुत्ताणं चयोवचएण' मुहूर्त्तानां पञ्चदशसङ्ख्यानां चयोपचयेन वयेन-अधिकत्वेन वृद्धिरपचथेन-हीनत्वेनापवृद्धिः, इयमत्र भावना - परिपूर्णपखदशमुहूर्त्तप्रमाणे दिवसरात्री न भवतो, हीनाधिक पञ्चदशमुहूर्त्तप्रमाणे तु दिवसरात्री भवतः, एवं 'अन्नत्थ वा अणुवायगईए' इति वाशब्दः प्रकारान्तरसूधने अन्यत्रानुपातगतेः--अनुसार| गतेः पञ्चदशमुत्तों दिवसः पञ्चदशमुहूर्त्ता वा रात्रिर्न भवति, अनुसारगत्या तु भवत्येव, सा चानुसार गतिरेवं-यदि त्र्यशी| त्यधिकशततमे मण्डले षण्मुहूर्त्ता वृद्धी हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ त्रयो मुहूर्त्ताः प्राप्यन्ते, व्यशीत्यधिकशतस्य वाऽर्द्ध सार्द्धा एकनवतिः तत आगतं एकनवतिसङ्ख्येषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्यार्जे गते पञ्चदश मुहूर्त्ताः प्राप्यन्ते, तवस्तत ऊर्द्ध रात्रिकल्पनायां पञ्चदशमुत्तों दिवसः, पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते नान्यथेति, 'गाहाओ भणितव्वाओ'ति अत्र अनन्तरोक्तार्थसङ्ग्राहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबाहु खामिना या निर्युक्तिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्त्तन्ते ता 'भणितच्या' पठनीयाः, ताश्च सम्प्रति क्वापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति ।
इति मलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं समाप्तम् ॥
तदेवमुक्तं प्रथमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं सम्प्रति द्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह
For Pale Only
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- १ परिसमाप्तं अथ प्रथमे प्राभृते प्राभृतप्राभृतं २ आरभ्यते
~36~
wor