SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४९ ] दीप अनुक्रम [ ६८ ] सूर्यप्रज्ञअतिवृत्तिः ( मल०) ॥१४९॥ “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [१५], मूलं [ ४९ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.. स्त्रिंशता गुण्यते जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वाषष्टिभागीकृतसकलतिथिगतमुहूर्त्तसत्का अंशाः, ततो मुहूर्त्तानयनार्थं तेषां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्त्ता द्वात्रिंशश्च द्वाषष्टिभागा मुहूर्त्तस्य, एतावन्मुहूर्त्त प्रमाणा तिथिः, एतावता हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानिं वोपगच्छति वर्द्धते वा, तत एतावानेव तिथेः परिमाणकालः, तदेवमहोरात्रादस्ति तिथेः प्रतिविशेष इत्युपपन्नस्तिथिविषये पृथकप्रश्नः, एवं गौतमेन प्रश्ने कृते भगवानाह - 'तत्थ खलु' इत्यादि, तत्र तिथिविचारविषये खल्विमा वक्ष्यमाणस्वरूपा द्विविधास्तिथयः प्रज्ञप्ताः, तद्यथा-- दिवसतिथयो रात्रितिथयश्च तत्र तिथेर्यः पूर्वार्द्धभागः स दिवसतिथिरित्युच्यते, यस्तु पश्चार्द्ध- ॐ भागः स रात्रितिथिरिति, 'ता कह'मित्यादि, ता इति पूर्ववत् कथं ?-केन प्रकारेण कया नाम्नां परिपाव्या इत्यर्थः, दिवसतिथय आख्याता इति वदेत्, भगवानाह - ' एगमेगस्स णमित्यादि, ता इति पूर्ववत् एकैकस्य णमिति वाक्यालङ्कारे पक्षस्य मध्ये पशदश दिवसतिथयः प्रज्ञप्ताः, तद्यथा - प्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पञ्चमी पक्षस्य पूर्णा, ततः पुनरपि षष्ठी तिथिर्नन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पक्षस्य पूर्णा, ततः पुनरप्येकादशी तिथिर्नन्दा द्वादशी भद्रा वयोदशी जया चतुर्दशी तुच्छा पक्षस्य पश्चदशी पूर्णा, 'एवमित्यादि, एवं उत्केन प्रकारेण एते इति स्त्रीत्वेऽपि प्राप्ते पुंस्त्थनिर्देशः प्राकृतत्वात्, एता अनन्त रोदितास्तिथयो नन्दाद्याः, नन्दादीन्यनन्तरोदितानि तिथिनामानीत्यर्थः, त्रिगुणाः, त्रिगुणितानीति भावः सर्वेषां पक्षान्तर्वर्त्तिनां दिवसानां सर्वासां पक्षान्तर्वर्त्तिनीनां दिवसतिथीनामित्यर्थः, 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं १-केन प्रकारेण, कया नाम्नां परिपाठ्या Jan Eaton International For Penal Use Only ~303~ १० प्राभूते १५ प्राभूतप्राभूते दिवसरात्र तिथिनामा नि सू ४९ ॥१४९॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy