________________
आगम
(१६)
प्रत
सूत्रांक
[ ४५ ]
दीप अनुक्रम [ ५५ ]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [११],
मूलं [ ४५ ]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित.
तत्राद्यानि पटू नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथापि तानि तस्य प्रत्यासन्नानीति तत्र गण्यन्ते, ततो न कश्चिद्विरोधः, तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा नक्षविरहितानि तानि सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि, तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि | तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानि णमिति प्राग्वत् चत्वारि, तद्यथा- 'पढमे चंदमंडले' इत्यादि, तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा आदित्याभ्यां विरहितानि तानि पञ्च तद्यथा-'छट्ठे चंदमंडले' इत्यादि सुगमं एतद्भणनाच्च यान्यभ्यन्तराणि पञ्च चन्द्रमण्डलानि, तद्यथाप्रथमं द्वितीयं तृतीयं चतुर्थे पञ्चमं, यानि च सर्ववाद्यानि चन्द्रमण्डलानि तद्यथा-एकादशं द्वादशं त्रयोदशं चतुर्दशं पश्चदशमित्येतानि दश सूर्यस्यापि साधारणानीति गम्यते, तथा चोक्तमन्यत्र - 'दस चैव मंडलाई अभितरबाहिरा रविससीणं । सामन्नाणि उ नियमा पत्तेया होंति सेसाणि ॥ १ ॥" अस्याक्षरगमनिका - पश्चाभ्यन्तराणि पञ्च बाह्यानि सर्वसङ्ख्या दश मण्डलानि नियमाद्रविशशिनोः सामान्यानि - साधारणानि, शेषाणि तु यानि चन्द्रमण्डलानि पडादीनि दशपर्यन्तानि तानि प्रत्येकानि असाधारणानि चन्द्रस्य, तेषु चन्द्र एव गच्छति नतु जातुचिदपि सूर्य इति भावः, इह किं चन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन न स्पृश्यते कियन्ति वा चन्द्रमण्डलस्यापान्तराले सूर्यमण्डलानि कथं वा षडादीनि दशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्येण न स्पृश्यन्ते इति चिन्तायां विभागोपदर्शनं पूर्वाचार्यैः कृतं, ततस्तद्विनेयजनानुग्रहायोपदर्श्यते तत्र प्रथमत एतद्विभावनार्थं विकम्पक्षेत्रकाष्ठा निरूप्यते, इह सूर्यस्य विकम्पक्षेत्रकाष्ठा पश्च
For Parts Only
~284~