________________
आगम
(१६)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [५० ]
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [७],
मूलं [४०]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ?-केन प्रकारेण भगवन् ! त्वया चन्द्रयोगमधिकृत्य पौर्णमास्यमावास्यानां सन्निपात आख्यात इति वदेत् ?, एवमुक्ते भगवानाह - 'ता जया ण' मित्यादि, इह व्यवहारनयमतेन यस्मिनक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्रविष्ठी- श्रविष्ठा नक्षत्रयुक्ता पौर्णमासी भवति तदा तस्यामर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति, मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशत्वात् एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा तु णमिति वाक्यालङ्कारे माघी - मघानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी - श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्व श्रविष्ठानक्षत्रस्य पश्चदशत्वात् एतच्च माघमासमधिकृत्य वेदितव्यं तथा 'ता जया पण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्त रभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी-उत्तरफाल्गुनी नक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनी नक्षत्रस्य पञ्चदशत्वात्, यत्त्वपान्तराले अभिन्निक्षत्रं तत्स्तोककालत्वात् प्रायो न व्यवहारपथमवतरति, तथा च समवायाङ्गसूत्रम् — 'जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारो बट्टइति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभाद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनी नक्षत्रमिति, एतच्च भाद्रपदमासमधिकृत्योक्तमवसेयं, 'जया ण' मित्यादि, यदा व फाल्गुनी - उत्तरफाल्गुनीनक्षत्रयुक्त्ता पौर्णमासी भवति तदा पा श्वात्या अमावास्या प्रोष्ठपदी - उत्तरभद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्द्दशत्वात् इदं च फाल्गुनमासमधिकृत्योक्तं, 'जया ण'मित्यादि, यदा च आश्वयुजी- अश्वयुनक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्या
Jan Eaton tumatal
F&P Us On
~262~