________________
आगम
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१६)
प्राभत [४], ....................-- प्रातिप्राभत -1, ...............- मूल [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्राभृतम्
प्रत
सूत्रांक
[२५]
दीप
सूर्यप्रज्ञ- वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण बदामः, तमेव प्रकारमाह-'उद्धी- तिवृत्तिःमुखे'त्यादि, अर्वमुखकलम्बुकपुष्पसंस्थिता-ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येव-नालिकापुष्पस्येव संस्थित-संस्थानं यस्याः (मल०) सा तथा, तापक्षेत्रसंस्थितिः प्रज्ञप्ता, मया शेपैश्च तीर्थकृद्भिः, सा कथम्भूतेत्यत आह-अन्तः-मेरुदिशि सङ्कचा-सचिता
बहिः-लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता-वृत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् बीन् द्वौ वा दशभागान॥७१॥
भिव्याप्य तस्या व्यवस्थितत्वात् , बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्ट स्पष्टयति-'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठियत्ति अन्तर्मेरुदिशि अङ्क:-पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धः तस्य मुख-अग्रभागोऽद्धेवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा बहिर्लवणदिशि स्वस्तिकमुखसं-| स्थिता-स्वस्तिकः-सुप्रतीतः तस्य मुख-अग्रभागः तस्येवाति विस्तीर्णतया संस्थित-संस्थानं यस्याः सा तथा, 'उभओपासेणं ति उभयपार्थेन मेरुपर्वतस्योभयोः पार्श्वयोस्तस्याः-तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे ते आयामेन-जम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः, सा चैकैका आयामतः किंप्रमाणा इत्याहपश्चचत्वारिंशत् २ योजनसहस्राणि ४५०००, तस्यास्तापक्षेत्रसंस्थितेरेकैकस्या दे च बाहे अनवस्थिते भवतः, तद्यथा-1 सर्वाभ्यन्तरा सर्वबाह्या च, तत्र या मेरुसमीपे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा, या तु लवणदिशि जम्बूद्वीप-ड्रा पर्यन्ते विष्कम्भमधिकृत्य बाहा सा सर्ववाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तन्यो विष्कम्भः पूर्वापरायततया, एवमुक्ते सति भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधनार्थं भूयः पृच्छति-'तत्थेत्यादि, तत्र-तस्यामेवंविधायामनन्त
अनुक्रम
[३५]]
॥७१॥
~147~