________________
आगम
(१६)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[३५]
प्राभृत [४] मुनि दीपरत्नसागरेण संकलित.
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [२५]
आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
तापक्षेत्रसंस्थितिः प्रज्ञष्ठा, अत्र विग्रहभावना प्रागिव वेदितव्या, अनोपसंहारः 'एगे एवमाहंसु' १०, एवं उत्केन प्रकारेण उद्यानसंस्थिता तापक्षेत्र संस्थितिरपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, उज्जाणसंठिया तावखित्तसंठिई पक्षता, एगे एवमाहंसु, (ग्रंथाग्रं २०००) अत्र उद्यानस्येव संस्थितं - संस्थानं यस्याः सा तथेति विग्रहः ११, 'निज्जाणसंठिय'त्ति निर्याणं पुरस्य निर्गमनमार्गः तस्येव संस्थितं - संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, निजाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंस' १२, 'एगतोनिसहसंठियत्ति एकतो- रथस्य एकस्मिन् पार्श्वे यो नितरां सहते स्कन्त्रः पृष्ठे वा समारोपितं भारमिति निषधो बलीवईस्तस्येव संस्थितंसंस्थानं यस्याः सा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, एगतोनिसहसं |ठिया तावस्त्रित्तसंठिई पण्णत्ता, एगे एवमाहंसु १३, 'दुहतोनि सहसंठिय'त्ति अपरेषामभिप्रायेणोभयतो निषधसंस्थिता वक्तव्या, उभयतो रथस्योभयोः पार्श्वयोर्यो निषध-चलीबद्द तयोरिव संस्थितं संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या - एगे पुण एवमाहंसु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १४ 'सेपणगसंठिय'त्ति | श्येनकस्यैव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैत्रम्- 'एगे पुण एवमाहंसु सेयाणसंठिया तावखित्तसंठिई पनत्ता एगे एवमाहंस' १५, 'एगे पुण' इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव श्येनपृष्ठस्येव संस्थितं संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञता, अत्रोपसंहारमाह- 'एंगे एवमाहंस' १६, तदेवमुक्ताः पोटशापि प्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्नमुपदर्शयति- 'वयं पुण' इत्यादि,
Education Internationa
For Parts Only
~146~