SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२५] दीप अनुक्रम [३५] प्राभृत [४] मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञप्ति" - उपांगसूत्र -५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [२५] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः भागस्तस्यैव संस्थितं - संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु हम्मियतलसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' १५ 'वालग्गपोत्तिषासंठिय'त्ति वालाप्रपोतिका शब्दो देशीशब्द| त्वादाकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं उघुप्रासादमाह तस्या इव संस्थितं संस्थानं यस्याः सा तथा अपरेषां मतेन अ| भिधानीया, तद्यथा- 'एगे पुण एवमाहंसु वालग्गपोत्तिया संठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' १६ । तदेवमुक्ताः परतीर्थिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्तिः समीचीना तामुपदर्शयति- 'तत्थे' त्यादि, तत्र तेषां षोडशानां परतीर्थिकानां मध्ये ये ते वादिन एवमाहुः समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञष्ठा इति एतेन नयेन नेतव्यं - एतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः तथाहि इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्त्तते तद्वितीयस्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्त्तते द्वितीय उत्तरपूर्वस्यामत एतेषु युगस्यादौ चन्द्रसूर्याः समचतुरस्रसंस्थिता वर्त्तन्ते, यत्त्वत्र मण्डलकृतं वैषम्यं यथा सूर्यो सर्वाभ्यन्तरमण्डले वर्त्तेते चन्द्रमसौ सर्वबा इति तदल्पमितिकृत्वा न विवक्ष्यते, तदेवं यतः सकलकालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिताः सूर्यचन्द्रमसो भवन्ति ततस्तेषां संस्थितिः समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरस्रसंस्थिति: परिभावनीयेति, 'नो वेव णं इयरेहिं ति नो चेव-नैव इतरैः- शेषैर्नयैश्चन्द्रसूर्य संस्थितिर्ज्ञातव्या, तेषां मिथ्यारूपत्वात्, तदेवमुक्ता चन्द्रसूर्यसंस्थितिः । सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नस् Education International For Parts On ~ 144~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy