________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३३]
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
एवंविधवस्तुतत्त्वव्यवस्थायां को हेतुः ? - का उपपत्तिरिति वदेत् एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहुः 'ता अयण्ण' मित्यादि, अत्र जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्ण पठनीयं व्याख्यानीयं च 'जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्गम्य चारं चरति तदा दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्- 'तया णं उत्तमकपत्ते उफोसए अट्ठारसमुहुत्ते दिवसे भवइ जहन्निया दुबालसमुहुत्ता राई भवइ,' 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादश मुहूर्त्तप्रमाणदिवसे तापक्षेत्रं प्रज्ञप्तं एकनवतिर्योजन सहस्राणि ९१०००, तानि चैवमुपपद्यन्तेउद्गमन मुहूर्त्तेऽस्तमय मुहूर्त्ते च प्रत्येकं षट्र योजन सहस्राणि गच्छतीत्युभय मीउने द्वादश योजनसहस्राणि १२०००, सर्वाभ्यन्तरं मुहूर्त्तमात्रगम्यं तापक्षेत्रं मुक्त्वा शेषे मध्यमे तापक्षेत्रे पञ्चदशमुहूर्त्तप्रमाणे पञ्च पञ्च योजनसहस्राणि गच्छतीति पञ्चानां योजनसहस्राणां पञ्चदशभिर्गुणने पञ्चसप्ततिर्योजन सहस्राणि ७५०००, सर्वाभ्यन्तरे तु मुहर्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि ४००० गच्छतीति सर्वमीलने एकनवतियोंजन सहस्राणि ९१००० भवन्ति, न चैतान्यन्यथा घटन्ते, तथा 'ता जया णमित्यादि, तत्र यदा सर्वबाह्यं मण्डलमुपसङ्क्रम्य सूर्यश्वारं चरति तदा रात्रिंदिवं रात्रिंदिवपरिमाणं तथैव-प्रागिव वेदितव्यं तच्चैवम्-'तया णं उत्तमकट्टपत्ता उक्कोसिया अहारसमुहुत्ता राई भवइ, जहन्नए दुबालसमुहुत्ते दिवसे भवद्द' इति, 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञसं, एकषष्टियोंजनसहस्राणि ६१०००, तानि चैवं घटां प्राञ्चन्ति – उद्गमनमुहूर्त्ते अस्तमयमुहूर्त्ते च प्रत्येकं पट् षट् योजन सहस्राणि गच्छन्ति तत उभयमीलने द्वादश योजनसहस्राणि भवन्ति १२०००, सर्वाभ्यन्तरं मुहूर्त्तमात्रगम्यं तापक्षेत्रं
Education internationa
For Par Lise Only
~ 114~
wor