SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८८ -२८९] + गाथा दीप अनुक्रम [५३४ -५३६] “प्रज्ञापना” उपांगसूत्र- ४ (मूलं + वृत्ति:) पदं [२३], दारं [-], ----------- उद्देशकः [१]. मूलं [ २८८-२८९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - तथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेदनीयमित्युच्यते, न शेषं, तथा मोहयति - सदसद्विवेकविकलं करोति आत्मानमिति मोहनीयं, अत्र बहुलवचनात् कर्त्तर्य्यनीयः, तथा एतिआगच्छति प्रतिबन्धकतां खकृतकर्मबद्धनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः, अथवा आ समन्तादेतिगच्छति भवाद भवान्तरसङ्क्रान्तौ विपाकोदयमित्यायुः, उभयत्राप्यौणादिक उस्प्रत्ययः, तथा नामयति - गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम, तथा ग्रूयते - शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रं - उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कार्ये कारणोपचारात्, यद्वा कर्मणोऽपादानविवक्षा गूयते - शच्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्मणः उदयाद् गोत्रं, तथा जीवं दानादिकं चान्तरा व्यवधानापादनाय एति गच्छत्यन्तरायं, जीवस्य दानादि कर्त्तुमुद्यतस्य विघातकृद् भवतीत्यर्थः, अत्राह - नन्वित्यं ज्ञानावरणीयाद्युपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेव प्रवृत्तिरिति ?, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, इह ज्ञानं दर्शनं च जीवस्य खतत्त्वभूतं, तदभावे जीवत्वस्यैवाभावात् चेतनालक्षणो हि जीवस्ततः स कथं ज्ञानदर्शनाभावे भवेत् ?, ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं, तद्वशादेव सकलशास्त्रादिविषय विचारसन्ततिप्रवृत्तेः, अपिच - सर्वा अपि लब्घयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्य, 'सधाओ लद्धीओ सागरोवउत्तस्स नो अणागारोवओगोवउत्तस्से' [ सर्वा लब्धयः साकारोपयोगोपयुक्तस्य नानाकारोपयोगोपयुक्तस्य ] Eaton International For Park Use Only ~911~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy