________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [२८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
eeseses
प्रत सूत्रांक [२८२]
|मकभावः, कथमिति चेत् , उच्यते, कायोऽधिकरणमपि भवतीत्युक्तं प्राक, ततः कायस्याधिकरणत्वात् कायिक्या सत्सामवश्यमाधिकरणिकी आधिकरणिक्यामवश्यं कायिकी, सा च प्रतिविशिष्टा कायिकी क्रिया प्रद्वेषमन्तरेण न भवति ततः प्राद्वेषिक्याऽपि सह परस्परमविनाभावः, प्रद्वेषोऽपि च काये स्फुटलिङ्ग एव वक्ररूक्षत्वादेस्तदविना
भाविनः प्रत्यक्षत एवोपलम्भात्, उक्तं च-"रूक्षयति रुष्यतो ननु चक्रं लियति च रज्यतः पुंसः । औदारिकोऽपि || देहो भाववशात् परिणमत्येवम् ॥१॥" परितापनस्य प्राणातिपातस्य चाद्यक्रियात्रयसम्भवेऽप्यनियमः, कथमिति
चेत् , उच्यते, यद्यसौ घात्यो मृगादिर्घातकेन धनुषा क्षिसेन बाणादिना विध्यते ततस्तस्य परितापनं मरणं वा भवति, नान्यथा, ततो नियमाभावः, परितापनस्य प्राणातिपातस्य च भावे पूर्व क्रियाणामवश्यं भायस्तासामभावे तयोरभावात् , ततोऽमुमेयार्थ परिभान्य कायिकी शेषाभिश्चतसृभिः क्रियाभिः सह आधिकरणिकी तिसृभिः क्रियाभिः सह प्राद्वेषिकी द्वाभ्यां सूत्रतः सम्यक चिन्तनीया, पारितापनिकी प्राणातिपातक्रिययोस्तु सूत्रं साक्षा-1 दाह-'जस्स णं भंते ! जीवस्स पारियावणिया किरिया कजति' इत्यादि, पारितापनिक्याः सद्भावे प्राणातिपातक्रिया स्याद् भवति स्थान भवति, यदा बाणाद्यभिघातेन जीवितात् च्याव्यते तदा भवति शेषकालं न भवतीत्यर्थः, यस्ख पुनः प्राणातिपातक्रिया तस्य नियमात् पारितापनिकी, परितापनमन्तरेण प्राणव्यपरोपणासम्भवात् । सम्प्रति नैरयिकादिचतुर्विंशतिदण्डकक्रमेण परस्परमविनाभावं चिन्तयति-'जस्स णं भंते ! नेरदयस्स काइया
दीप
aesed
अनुक्रम [५२९]
act
~893~