________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापना- याः मल-
प्रत सूत्रांक [२७३]
॥४२४॥
श्रुतमवगाहमानः श्रुतसामर्थ्यतस्तीव्रतीव्रतरशुभभावनामधिरोहन अप्रमत्तः सन् , उक्तं च-"अवगाहते च स श्रुतज- २१शरीर
पदं लाधि प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्टादिबुद्धीर्वा ॥१॥ चारणवैक्रियसौषधिताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र 'स' इत्यप्रमत्तसंयतः, मानसपर्यायमिति-मानसाः-मनसः सम्बन्धिनः पर्याया-विषया यस्य तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः, कोष्ठादिबुद्धीर्वा इत्यत्रादिशब्दात् पदानुसारिवीजपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथाकोष्ठबुद्धिः १ पदानुसारिबुद्धिः २ बीजबुद्धि ३ श्व, तत्र कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदव-18 स्थानी च सूत्रार्थों धारयति न किमपि तयोः कालान्तरे गलति सा कोष्ठबुद्धिः१, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदयस्थमेव श्रुतमवगाहते सा पदानुसारिणी २, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि । यथावस्थितं प्रभूतमर्थमवगाहते सा बीजवुद्धिः ३, सा च सर्वोत्तमप्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाक्षात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषध्यश्च तद्भावश्च । चारणवैक्रियसौषधिता, तत्र चरणं-गमनं तद्विद्यते येषां ते चारणाः 'ज्योत्स्वादिभ्योऽणि'ति मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एव । चातिशायने मत्वर्थीयो, यथा रूपवती कन्या इत्यत्र, ततोऽयमर्थ:-अतिशायिचरणसमर्थाश्चारणाः, आह च भाष्य
दीप
अनुक्रम [५१९]
॥४२४॥
~852~