________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६७] + गाहा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२६७]
गाथा
'विहिसंठाणपमाणे' इत्यादि प्रथमं विघयो-भेदाः शरीराणां वक्तव्याः, तदनन्तरं संस्थानानि, ततः प्रमाणानि, तदनन्तरं कतिभ्यो दिग्भ्यः शरीराणां पुद्गलोपचयो भवतीत्येवं पुद्गलचयनं वक्तव्यं, ततः कस्मिन् शरीरे सति किं शरीरमवश्यंभावीत्येवंरूपः परस्परसंयोगो वक्तव्यः, ततो द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः ते च द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः 'समानानामेकशेषः' इत्येकशेषस्तैरल्पबहुत्वं वक्तव्यं, किमुक्तं भवति ?-द्रव्यार्थतया प्रदेशार्थतया| द्रव्यार्थप्रदेशार्थतया च पञ्चानामपि शरीराणामल्पबहुत्वमभिधातव्यमिति, ततः पञ्चानामपि शरीराणामवगाहना-18 विषयमल्पबहुत्वं वाच्यमिति गाथासक्षेपार्थः । तत्र 'यथोद्देशं निर्देश' इति प्रथमतो विधिद्वारमभिधित्सुरादौ शरी-13 रमूलभेदान् प्रतिपादयति,–'कद णं भंते ! इत्यादि, कति-किंपरिमाणानि णमिति वाक्यालङ्कारे भदन्त । शीर्यन्ते-प्रतिक्षणं विशरारुभावं विनतीति शरीराणि, शरीराण्येव शरीरकाणि, तथा स्वार्थे कप्रत्ययः, भगवानाहगौतम ! पश्च शरीराणि प्रज्ञप्सानि मया अन्यैश्च शैपैस्तीर्थकृद्भिः, तान्येव नामत आह-ओरालिए' इत्यादि, उदारं| प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरशरीरस्याप्यनन्तगुणहीनत्वात् , यद्वा उदारंसातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणं, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रिय योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं विनयादिपाठादिकण् , तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भयं वैक्रियं, तथाहि-तदेकं भूत्वा अनेकं भवति अनेकं. भूत्वा एकं
दीप अनुक्रम
[५०९
-५१०]
SAREauratonintemational
Baitaram.org
~821~