________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [४], -------------- मूलं [२३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३४]
दीप अनुक्रम [४७५]
माणमसङ्ख्ययाः पुद्गलपरावर्त्तास्ततो यावन्तोऽसङ्ख्ययेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनां, ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनं, प्रतिनियतपरिमाणत्वादेव च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्ती च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसि|द्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात्, आह च-"कायट्ठिइकालेणं तेसिमसंखेज्जयावहारेणं । निलेवणमावन्नं सिद्धीवि य सबभवाणं ॥१॥ पइसमयमसंखेजा जेणुवटुंति तो तदभत्था । कायट्टिइऍ समया वणस्सईणं च परिमाणं ॥२॥[कायस्थितिकालेन तेषामसंख्येयकापहारेण । निर्लेपनमापन्नं सिद्धिरपि च सर्वभन्यानां ॥१॥ प्रतिसमयमसंख्यया येनोद्वर्त्तन्ते ततस्तदभ्यस्ताः । कायस्थितेः समयाः वनस्पतीनां च परिमाणं ॥२॥] न चैतदस्ति. वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधा-18 नात्, उच्यते, इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाधेति, तत्र ये निगोदावस्थात उद्धृत्त्य पृथि-8 वीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति व्यवहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांच्यवहारिका एव, संव्यवहारे पतितत्वात्, ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिकाः, कथमेतदवसीयते । द्विविधाः जीवाः सांव्यवहारिकाः असांव्यवहारिकाश्चेति, उच्यते, युक्तिवशात्, इह प्रत्युत्पन्नवन
~ 763~